Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Mana
f
adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsage
Fyanmandir
खेतोरित्यर्थः । तत्र प्रतिज्ञाभङ्गकारणमाह-संसारिया इत्यादि, संसारो विद्यते येषां ते सांसारिकाः, खलुरलङ्कारे, 'प्राणा' Me जन्तवः स्थावराः 'प्राणिनः पृथिव्यप्तेजोवायुवनस्पतयः सन्तोऽपि तथाविधकर्मोदयात्रसतया-त्रसलेन द्वीन्द्रियादिभावेन प्रत्या
यान्ति-उत्पद्यन्ते, तथा वसा अपि स्थावरतयेति, एवं च परस्परगमने व्यवस्थिते सत्यवश्यंभावी प्रतिज्ञाविलोपः, तथाहि नागरिको मया न हन्तव्य इत्येवंभूता येन प्रतिज्ञा गृहीता स यदा बहिरारामादौ व्यवस्थितं नागरिक व्यापादयेत् किमेतावता तस्य न भवेत्प्रतिज्ञाविलोपः, एवमत्रापि येन त्रसवधनिवृत्तिः कृता स यदा तमेव सं प्राणिनं स्थावरकायस्थितं व्यापादयेत् किं तस्य न भवेत्प्रतिज्ञाविलोपः ?, भवत्येवेत्यर्थः । एवमपि त्रसस्थावरकाये समुत्पन्नानां त्रसानां यदि तथाभूतं किञ्चिदसाधारणं लिङ्गं स्थात् ततस्ते त्रसाः स्थावरसेनाप्युत्पन्नाः शक्यन्ते परिहतु, न च तदस्तीत्येतदर्शयितुमाह-'थावरकायाओ'इत्यादि, स्थावरका-18 | यात्सकाशाद्विविधम्-अनेकैः प्रकारःप्रकर्षेण मुच्यमानाः स्थावरकायायुषा तद्योग्यैश्चापरैः कर्मभिः सर्वात्मना त्रसकाये समुत्पद्यन्ते, तथा त्रसकायादपि सर्वात्मना विमुच्यमानास्तत्कर्मभिः स्थावरकाये समुत्पद्यन्ते, तत्र चोत्पन्नानां तथाभूतत्रसलिङ्गाभा-| वात्प्रतिज्ञालोप इत्येतत्सूत्रेणैव दर्शयितुमाह-'तेसिं च णमित्यादि, 'तेषां च त्रसानां स्थावरकाये समुत्पन्नानां गृहीतत्रसप्राणातिपातविरतेः श्रावकस्याप्यारम्भप्रवृत्तखेनैतत्स्थावराख्यं घासं स्थानं भवति, तसाद निवृत्तवाचस्पेति ॥ तदेवं व्यवस्थिते नागरिकदृष्टान्तेन त्रसमेव स्थावरखेनायात व्यापादयतोऽवश्यंभावी प्रतिज्ञाविलोपो यतः तत एव मदुक्तया वक्ष्यमाणनीत्या प्रत्याख्यानं कुर्वतां सुप्रत्याख्यातं भवति, एवमेव च प्रत्याख्यापयतां सुप्रत्याख्यापितं भवति, एवं च ते प्रत्याख्यापयन्तो नातिचरन्ति स्वीयां प्रतिज्ञामित्येतद्दर्शयितुमाह-'णण्णत्थे' त्यादि, तत्र गृहपतिः प्रत्याख्यानमेवं गृह्णाति, तद्यथा-'सभूतेषु वर्तमानकाले ९
Preverseeeeeeeeeeeee
For Private And Personal

Page Navigation
1 ... 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859