Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Man:
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashs:
Gyanmandir
नगरद्वाराणि, तेषां च तत्कालात्ययान्न निर्गमनमभूत् , ततस्ते भयसंभ्रान्ता नगरमध्य एवात्मानं गोपयिखा स्थिताः, ततो नि| क्रान्त कौमुदीप्रचारे राज्ञाऽऽरक्षिकाः समाहृयादिष्टा:-यथा सम्यक् निरूपयत यूयं नात्र नगरे कौमुदीचारे कश्चित्पुरुषो व्यवस्थित ? इति, तैरप्यारक्षिकैः सम्यग् निरूपयद्भिरुपलभ्य पड्वणिक्पुत्रवृत्तान्तो यथावस्थित एव राज्ञे निवेदितः, राज्ञाऽप्याज्ञाभङ्गकुपितेन तेषां षण्णामपि वधः समादिष्टः, ततस्तत्पिता पुत्रवधसमाकर्णनगुरुशोकविह्वलोऽकाण्डापतितकुलक्षयोद्धान्तलोचनः किंकर्तव्यतामूढतया गणितविधेयाविधेयविशेषो राजानमुपस्थितोऽवादीच गद्गदया गिरा-यथा मा कृथा देवासाकं कुलक्षयं, | गृह्यतामिदमसदीयं कुलक्रमायातं स्वभुजोपार्जितं प्रभूतं द्रविणजातं, मुच्यतां मुच्यताममी षट् पुत्राः, क्रियतामयमसाकमनुग्रह इति । एवमभिहितो राजा तद्वचनमनाकर्ण्य पुनरपि सविशेषमादिदेश, असावपि वणिक्सर्ववधाशङ्की सर्वमोचनानभिप्रायं राजानमवेत्य पञ्चानां मोचनं याचितवान् , तानप्यसौ राजा न मोक्तुमना इत्येवमभिगम्य चतुर्मोचनकृते सादरं विज्ञप्तवान् तं, तथापि राजा तमनादृत्य कुपितवदन एव स्थितः, ततस्त्रयाणां विमोचने कृतादरस्तत्पिताऽभूत , तानप्यमुश्चन्तं राजानं ज्ञाला गणितस्वापराधो द्वयोर्मोचनं प्रार्थितवान् , तत्राप्यवज्ञाप्रधानं नृपतिमवगम्य ततः पौरमहत्तमसमेतो राजानमेवं विज्ञप्तवान् , तद्यथा| देवाकाण्ड एवास्माकं कुलक्षयः समुपस्थितः, तस्साच्च भवन्त एव त्राणायालम् , अतः क्रियतामेकमत्पुत्रविमोचनेन प्रसाद इति
भणिखा पादयोः सपौरमहत्तमः पतितो, राज्ञापि संजातानुकम्पेन मुक्तस्तदेको ज्येष्ठपुत्र इति । तदेवमस्य दृष्टान्तस्य दाष्टोन्तिक| योजनेयं, तद्यथा-साधुनाऽभ्युपगतसम्यग्दर्शनमवगम्य श्रावकमखिलप्राणातिपातविरतिग्रहणं प्रति चोदितोऽप्यशक्तितया यदा न सर्वप्राणातिपातविरतिं प्रतिपद्यते, यथाऽसौ राजा वणिजाऽत्यर्थ विज्ञापितोऽपि न पडपि पुत्रान् मुमुक्षति, नापि पश्चचतुस्लिद्वि
For Private And Personal

Page Navigation
1 ... 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859