SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ Shri Man: Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs: Gyanmandir नगरद्वाराणि, तेषां च तत्कालात्ययान्न निर्गमनमभूत् , ततस्ते भयसंभ्रान्ता नगरमध्य एवात्मानं गोपयिखा स्थिताः, ततो नि| क्रान्त कौमुदीप्रचारे राज्ञाऽऽरक्षिकाः समाहृयादिष्टा:-यथा सम्यक् निरूपयत यूयं नात्र नगरे कौमुदीचारे कश्चित्पुरुषो व्यवस्थित ? इति, तैरप्यारक्षिकैः सम्यग् निरूपयद्भिरुपलभ्य पड्वणिक्पुत्रवृत्तान्तो यथावस्थित एव राज्ञे निवेदितः, राज्ञाऽप्याज्ञाभङ्गकुपितेन तेषां षण्णामपि वधः समादिष्टः, ततस्तत्पिता पुत्रवधसमाकर्णनगुरुशोकविह्वलोऽकाण्डापतितकुलक्षयोद्धान्तलोचनः किंकर्तव्यतामूढतया गणितविधेयाविधेयविशेषो राजानमुपस्थितोऽवादीच गद्गदया गिरा-यथा मा कृथा देवासाकं कुलक्षयं, | गृह्यतामिदमसदीयं कुलक्रमायातं स्वभुजोपार्जितं प्रभूतं द्रविणजातं, मुच्यतां मुच्यताममी षट् पुत्राः, क्रियतामयमसाकमनुग्रह इति । एवमभिहितो राजा तद्वचनमनाकर्ण्य पुनरपि सविशेषमादिदेश, असावपि वणिक्सर्ववधाशङ्की सर्वमोचनानभिप्रायं राजानमवेत्य पञ्चानां मोचनं याचितवान् , तानप्यसौ राजा न मोक्तुमना इत्येवमभिगम्य चतुर्मोचनकृते सादरं विज्ञप्तवान् तं, तथापि राजा तमनादृत्य कुपितवदन एव स्थितः, ततस्त्रयाणां विमोचने कृतादरस्तत्पिताऽभूत , तानप्यमुश्चन्तं राजानं ज्ञाला गणितस्वापराधो द्वयोर्मोचनं प्रार्थितवान् , तत्राप्यवज्ञाप्रधानं नृपतिमवगम्य ततः पौरमहत्तमसमेतो राजानमेवं विज्ञप्तवान् , तद्यथा| देवाकाण्ड एवास्माकं कुलक्षयः समुपस्थितः, तस्साच्च भवन्त एव त्राणायालम् , अतः क्रियतामेकमत्पुत्रविमोचनेन प्रसाद इति भणिखा पादयोः सपौरमहत्तमः पतितो, राज्ञापि संजातानुकम्पेन मुक्तस्तदेको ज्येष्ठपुत्र इति । तदेवमस्य दृष्टान्तस्य दाष्टोन्तिक| योजनेयं, तद्यथा-साधुनाऽभ्युपगतसम्यग्दर्शनमवगम्य श्रावकमखिलप्राणातिपातविरतिग्रहणं प्रति चोदितोऽप्यशक्तितया यदा न सर्वप्राणातिपातविरतिं प्रतिपद्यते, यथाऽसौ राजा वणिजाऽत्यर्थ विज्ञापितोऽपि न पडपि पुत्रान् मुमुक्षति, नापि पश्चचतुस्लिद्वि For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy