Book Title: Sutrakritangam
Author(s): Sudharmaswami,
Publisher: Venichand Surchand
View full book text
________________
Shri Maharadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagyanmandir
यद्यपगताशेषबन्धनः स्यां तत एनं महापुरुषमार्द्रककुमारं प्रतिबुद्धतस्करपञ्चशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्वितं परमया भक्त्यैतदन्तिकं गत्वा वन्दामीत्येवं यावदसौ हस्ती कृतसंकल्पस्तावत्रटत्रटदिति त्रुटितसमस्तबन्धनः सन्नार्द्रककुमाराभिमुखं प्रदत्त| कर्णतालस्तथोर्ध्वप्रसारितदीर्घकरः प्रधावितः, तदनन्तरं लोकेन कृतहाहारवगर्भकल कलेन पूत्कृतं - यथा धिक् कष्टं हतोऽयमार्द्रककुमारो महर्षिर्महापुरुषः, तदेवं प्रलपन्तो लोका इतश्चेतश्च प्रपलायमानाः (सन्ति), असावपि वनहस्ती समागत्यार्द्रककुमारसमीपं भक्ति- | | संभ्रमावनताग्रभागोत्तमाङ्गो निवृत्तकर्णतालस्त्रिः प्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतच्चरणयुगल : सुप्रणिहित| मनाः प्रणिपत्य महर्षिं वनाभिमुखं ययाविति । तदेवमार्द्रककुमार तपोऽनुभावाद्बन्धनोन्मुक्तं महागजमुपलभ्य सपौरजनपदः श्रेणिकराजस्तमार्द्रककुमारं महर्षि तत्तपःप्रभावं चाभिनन्द्याभिवन्द्य च प्रोवाच भगवन्नाश्चर्यमिदं यदसौ वनहस्ती तादृग्विधाच्छत्रा|च्छेद्याच्छृङ्खलाबन्धनाद्युष्मत्तपःप्रभावान्मुक्त इत्येतदतिदुष्करमित्येवमभिहिते आर्द्रककुमारः प्रत्याह - भोः श्रेणिक महाराज ! नैत| दुष्करं यदसौ वनहस्ती बन्धनान्मुक्तः, अपि खेतदुष्करं यत्स्नेहपाशमोचनं, एतच्च प्राङ्गनिर्युक्तिगाथया प्रदर्शितं । सा चेयं - "ण दुकरं वा णरपासमोयणं, गयस्स मत्तस्स वर्णमि रायं । । जहा उ चत्तावलिएण तंतुणा, सुदुकरं मे पडिहार मोयणं ॥ १ ॥ एवमार्द्रककुमारो राजानं प्रतिबोध्य तीर्थकरान्तिकं गत्वाऽभिवन्द्य च भगवन्तं भक्तिभरनिर्भर आसांचक्रे, भगवानपि तानि | पञ्चापि शतानि प्रव्राज्य तच्छिष्य वेनोपनिन्य इति ॥५४॥ साम्प्रतं समस्ताध्ययनार्थोपसंहारार्थमाह – 'बुद्धस्से' त्यादि, 'बुद्ध:' अवगततत्त्वः सर्वज्ञो वीरवर्द्धमानखामी तस्याज्ञया तदागमेन इमं 'समाधिं' सद्धर्मावाप्तिलक्षणं अवाप्यासिंश्च समाधौ सुष्ठु स्थिता मनोवाक्कायैः सुप्रणिहितेन्द्रियो न मिथ्यादृष्टिमनुमन्यते, केवलं तदावरणजुगुप्सां त्रिविधेनापि करणेन विधत्ते, स एवंभूत आ
|
For Private And Personal

Page Navigation
1 ... 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859