Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावबोधिनी टीकासहिता
अथ समयाचारवतः योगिनः कृत्यनिरूपणम् —
मनोमार्गं जित्वा मरुत इह नाडीगणजुषो निरुध्यार्क सेन्दुं दहनमपि संज्वाल्य शिखया । सुषुम्नां संयोज्य श्लथयति च षड्ग्रन्थिशशिनं तवाज्ञाचक्रस्थं विलयति' महायोगिसमयी ॥ ३ ॥ पाठा०- (१) श्लथयति, विलसति ।
हे देवि ! महायोगिसमयी = समयाचारवान् योगी । मनोमार्ग नाडीगणजुषः मरुतः [ = वायून् च] जित्वा । इह [नाडीगणान्तर्गते इडापिङ्गलयोः ] | सेन्दुम् अर्कम्; निरुध्य = स्वस्वस्थाने निरुद्धं कृत्वा । दहनम् = मूलाधारस्थिताग्निम् । संज्वाल्य अपि । शिखया = तत्संज्वलिताग्नेः शिखया । सुषुम्नाम् = सुषुम्नानाडीम् । संयोज्य तत्संयोजनक्रियाविशेषेण । हे देवि ! तव = त्वत्संबन्धिनम् । आज्ञाचक्रस्थम् । षड्ग्रन्थिराशिनम् = मूलाधारादिषट्चक्रान्तस्थितचन्द्रमण्डलम् । श्लथयति । विलयति च =
द्रावयति च ॥३॥
अथ योगिशरीरे अमृतस्नपननिरूपणम्
यदा तौ चन्द्रार्कौ
निजसदनसंरोधनवशा
'दशक्तौ पीयूषस्रवणहरणे सा च भुजगी । प्रवृद्धा क्षुत्कुद्धा दशति शशिनं बैन्दवगतं सुधाधारासारैः स्नपयसि तनुं बैन्दवकले ॥४॥ पाठा० - (१) दशक्ता ।
बैन्दवकले = बिन्दुस्थानगतनित्याकलारूपिणि ! हे भगवति ! तौ चन्द्रार्कौ । निजसदनसंरोधनवशात् । पीयूषस्रवणहरणे = स्रवत्पीयूषाहरणे । यदा । अशक्तौ = शक्तिहीनौ भवतः । [ तदा] सा
For Private And Personal Use Only
-

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56