Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावबोधिनीटीकासहिता सुभगा = अत्यन्तसुभगा सर्वोत्तमा तव सायुज्यपदवी उदेति । तद् एव परम् उत्कृष्टं सौभाग्यं भवति इति शेषः ॥५१॥
अथैतत्सिद्धौ गुरुकृपायाः करुणत्वनिरूपणम्
'अतोऽस्याः संसिद्धौ सुभगसुभगाख्या गुरुकृपाकटाक्षव्यासङ्गात् नवदमृतनिष्यन्दसुलभा । तया विद्धो योगी विचरति निशायामपि दिवा दिवा भानू रात्रौ विधुरिव कृतार्थी कृतमतिः ॥५२॥ पाठान्तराणि-(१) अतस्ते संसिद्धा। (२) दिवा वा रात्री वा। (३) कृतार्थीकृत इति।
॥ इति श्रीगौडपादाचार्यविरचिता सुभगोदयस्तुतिः समाप्ता ॥ अतः = उक्तप्रकरण, अस्याः उपासनायाः, संसिद्धौ = सिद्धिविषये, सुभगसुभगाख्या = अत्यन्तसुभगा, कटाक्षव्यासङ्गात् स्रवदमृतनिःष्यन्दसुलभा गुरुकृपा [संपादनीया इति भावः ] । तया गुरुकृपया । विद्धः = युक्तः । योगी = योगाभ्यासरतः । निशायामपि, दिवा = अह्नि इव, विचरति । दिवा भानुः तु रात्रौ चन्द्रः इव भासते [ तस्य इति शेषः ] । नित्यतृप्तमनस्कः कृतार्थः अस्मि इति भावनावान् च विचरति ॥५२॥
इति सुभगोदयस्तुतेर्भावबोधिनी नाम टीका श्रीपरिपूर्णप्रकाशानन्दभारतीमहास्वामिकृता समाप्ता ॥
For Private And Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56