Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अथ प्रस्तारभास्करः उपोद्घातः Acharya Shri Kailassagarsuri Gyanmandir मूलप्रकृतिराद्येका जीवभावानुरोधतः । आदित्यश्चाम्बिका विष्णुर्गुणनाथो महेश्वरः ॥ १ ॥ इत्यादिभेदभिन्नाऽभूत्यैषा श्रीपदशब्दिता । तदुपासनमुज्झित्वा परमात्मा न गोचरः ॥ २ ॥ यस्मात्स नामरूपांशभिन्नो ज्ञानैकगोचरः । तस्मादुपासना देव्यास्तन्त्रेषु प्रथिता पृथक् ॥ ३ ॥ वेदेऽपि सैषा श्रीदेवी गायत्रीपदलक्षिता । मुक्तये चित्तशुद्धयर्थमादौ श्रीदेव्युपासनम् ॥ ४ ॥ आत्मैव जीवस्तद्मिन्नो भाति प्रकृतिवैभवात् । 'तदनाराध्यतां देवीं मुक्तो नैव भवेन्नरः ॥ ५ ॥ अतोऽवश्यमुपास्यैषा श्रीदेवी ज्ञानसिद्धये । क्रियाशक्तिस्वरूपेयमिति वेदान्तडिण्डिमः ॥ ६ ॥ प्रकृतेः कर्तृता ' तावदात्मसान्निध्यवैभवात् । तस्मादेवोपास्यतास्याः जीवभूतेति सेरिता ॥ ७ ॥ उपासनोपकरणं नाम-रूपमिति द्विधा । ते भूकैलासमेर्वाख्य-भेदभिन्ने पृथक्पृथक् ॥ ८ ॥ एवं बभूवुष्षड्धा ते" षडध्वानः प्रकीर्तिताः । " पक्षान्तरे षडध्वानः सौरशाक्तादिभेदतः ।। ९ ।। एवं षडध्वविवृति विशदीकुरुते यम् । प्रस्तारभास्करान्वर्थनामाप्नोति च सन्मुदे ॥ १०॥ इत्युपोद्घातः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56