Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
प्रस्तारभास्करः रूपतोऽपि च भूमेरुकैलासाख्यानतस्त्रिधा। .. तत्रादिभूतलाकारताम्रपत्रादिलेखनात् ॥१२॥ समवृत्ताधरूपोऽन्यो दीर्घवृत्ताधरूपवान् । उक्तार्थस्य समस्तस्य प्रमाणं श्रुतिरेव हि ॥१३॥ श्रीपदोद्दिष्टमखिलं ब्रह्माण्डं सचराचरम् । तस्मात्तदधिपो लोके ख्यातः श्रीपतिनामकः ॥१४॥ २°त्रिनाभिचक्रमित्यादिश्रुत्या तच्चक्रमीरितम् । 'श्रीचक्रराजनिलयेत्यादिस्मृत्या च तत्तथा ॥१५॥ तदेव तावच्छीदेव्याः पूजायां तन्त्रचोदितम् ।
इत्येतदर्पितो देव्यै नाम्ना प्रस्तारभास्करः ॥१६॥ अथास्य विवृतिः
सौन्दर्यलहाँ "चतुष्षष्ट्या तन्त्रैः ( ३१ श्लो० ) इत्यादिश्लोकस्य श्रीलोल्ललक्ष्मीधरपण्डितकृत-"लक्ष्मीधराख्य''-व्याख्यानुसारणी इयं विवृतिः । अत्राङ्गिभूताः षोडशनित्याः अष्टवर्गात्मकतया अष्टदल-पद्मदलेषु स्थिताः अष्टकोणचक्रे एकैकस्मिन् कोणे द्विकं द्विकं अन्तर्भूतम् । एताः एव नित्याः षोडशस्वरात्मकतया षोडशदलपद्मे स्थिताः । द्विदशारे अन्तर्भूताः । तासां मध्ये प्रथमं नित्याद्वयं त्रिकोणबिन्दुरूपेण स्थितम् । अवशिष्टाः तु चतुर्दशनित्याः मन्वने अन्तर्भूताः । मेखलात्रयं वृत्तत्रयं भूपुरत्रयं बैन्दवत्रिकोणयोः अन्तर्भूते । एवं नित्यानां चक्रे अन्तर्भावः । इममेव अन्तर्भावं मेरुप्रस्तारमाहुः । अत्र नित्यानां मातृकासम्बन्धित्वात्, मातृकायाः अकारादिवर्णात्मकत्वेन वर्णानां शब्दसंबन्धित्वेन च अयं नामप्रस्तारः एव ॥
अथ ताः एव नित्याः चक्रविद्यायाः चन्द्र कलास्वरूपायाः अङ्गभूताः सत्यः षोडशस्वरात्मिकाः भूत्वा पञ्चदशाक्षरमन्त्रगताः
For Private And Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56