Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्तारभास्करः एकारादिभूतककार-विसर्गात्मकसकाराभ्यां संगृहीताः बैन्दवस्थानस्थाः । कादयः मावसानाः पाशाङकुशबीजयुक्ताः सन्तः अष्टारे दशकोणद्वये अन्तर्भूताः। शिष्टाः तु यकारादयः वर्णाः मन्वने द्विरावृत्या अन्तर्भूताः । शिष्टवर्णचतुष्टयं शिवचक्रचतुष्टये अन्तर्भूतम् । इममेव कैलाशप्रस्तारमाहुः । एतस्य अपि मातृकामयत्वेन अयं च शाब्दापरनामधेयप्रस्तारः एव ॥ अथ भूप्रस्तार: नित्यानां द्विकं द्विकं वशिन्याद्यष्टके मेलयित्वा अष्टकोणेषु अन्तर्भाव्याः । अष्ट वर्गाः तु (चतुश्चत्वारिंशद्वर्णाः) = अष्टवर्गाः च । अथ अष्टवशिन्याद्याः + षोडशनित्याः + द्वादशयोगिन्यः + चतस्रः चतस्रः कामाकर्षिण्यादयः आहत्य चतुश्चत्वारिंशद्देवताः । एतासु एकां सादाख्यां विहाय अवशिष्टत्रिचत्वारिंशद्देवताः त्रिचत्वारिंशत्कोणेषु (अष्टकोण + दशारद्वय + चतुर्दशार + त्रिकोणात्केषु) विभाव्य, सादाख्यां त्रिपुरसुन्दरी बैन्दवाद् अधस्ताद् विभावयेत् । गन्धाकर्षिण्यादयः पुनः चतुर्दारेषु विभाव्याः । एवं विभावनां भूप्रस्तारमाहुः । एवमेव सुभगोदयादिषु नामप्रस्तारभेदानाहुः । अथ रूपप्रस्तारानुदाहरिष्यामः बाह्यपूजोपयोगित्वेन श्रीचक्रस्य आकृतिविशेष-तादात्म्यापन्नरूपप्रस्तारः विविच्यते । यथा, बिन्द्वर्धचन्द्रादिनवनादान्तरालभूतदशाङ्गलपरिमितचतुरश्रे ताम्रादिधातुमयपत्रे वा स्फाटिकादिशिलामयफलके वा अस्मदावासभूमेः तलसदृशे बिन्दुत्रिकोणादिनवयोन्यात्मकं श्रीचक्रं परिलेखयेत् । एतद् एव रूपप्रस्ताराङ्गभूतभूप्रस्तारः । अत्र नवनादान्तरालस्य दशाङ्गुलपरिमितत्वं पुनः “स भूमि विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम्” इति श्रुत्युपदिष्टं वेदितव्यम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56