Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्तारभास्करः अथ ग्रन्थारम्भ: अस्ति भाति प्रियं नाम रूपमित्यंशपञ्चकम् । अत्रान्त्ययोः प्राकृतत्वात् क्रियासम्बन्धिनौ हितौ ॥ १ ॥ 'प्रकृतौ तदुपास्यत्वं ज्ञेयता ब्रह्मणि स्फुटा । १०तत्रादिमात्परादेव्यास्सपर्या शास्त्रचोदिता ॥२॥ रूपनामात्मना तेन'' पूजोपकरणं द्विधा । ते तावद्भवतः कौलसमयचारिणोः क्रमात् ॥ ३ ॥ रूपं पुनद्विधा जातं देहचविभेदतः । तयोरपि द्विधाऽऽचारभेदोऽस्ति हितयोस्तथा।। ४ ।। कुण्डलिन्याख्यया देवी पिण्डाण्डे तु व्यवस्थिता। ब्रह्माण्डस्तत्प्रतीको" हि श्रीचक्रमुभयोस्तथा ॥ ५ ॥ कुण्डलिन्यपि सा सेव्या नामरूपात्मना पथा । तस्या उपासनाध्वानष्षड्वर्णादिविभेदतः ॥ ६ ॥ तत्रादिमं नाम तावद् "वर्णमन्त्रपदात्मकम् । रूपं पुनः कला-तत्त्व-भुवनाख्यानतस्त्रिधा ॥ ७ ॥ त्रिनाभिचक्रमित्ये तद्गतिमार्गः श्रुतीरितः । प्रस्ताराश्चैवमेव स्युः ते भू-कैलास-मेरवः ।। ८ ।। नामात्र मातृका ग्राह्या रूपं श्रीचक्रसंज्ञकम् । प्रस्तारनाम्नां सारूप्यं मातृका-चक्रयोरिह" ॥९॥ प्रस्तारास्ते मातृकादेः "नाम्नि रूपेऽपि तद्गतेः। स्याद् भूः मेरुश्च कैलासः वक्ष्यमाणविधानतः ।।१०।। अथ उक्तार्थविवरणम् मातृकामय इत्येको नित्या तादात्म्यतोऽपरः । मन्त्रतादात्म्यतोऽन्यश्च त्रिधा शाब्दो निरूपितः ॥११॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56