Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० प्रस्तारभास्करः अथ मेरुप्रस्तार: अस्मदावासभूतभूमेः एव सर्वक्रियाकलापाऽऽधारत्वेन अखिलब्रह्माण्डसृष्टेः श्रीपदवाच्यत्वेन तादृशश्रीदेव्युपासनाङ्गभूतश्रीचक्रस्य ब्रह्माण्डाकृतिः एव ग्राह्या प्रतीकतया । अतः तदङ्भूतभूगोलस्य अस्मदावासत्वेन तदाकृतिः एव ग्राह्या खलु तत्प्रतीकोपासनायाम् । अतः भूव्यासार्बोच्छ्रयं श्रीचक्रं कर्तव्यम् । तद् एव मेरुप्रस्तरवाच्यं भवति । एतद् अपि रूपप्रस्तारान्तर्भूतः एव । अथ कैलासप्रस्तारः___ भूगोल: तु स्वाकर्षकं रवि परितः परिभ्रमति इति विज्ञायते । "आयं गौः पृश्निरक्रमीद्' इत्यादिश्रुत्या तादृश-परिभ्रमणं त्रिनाभिचक्रात्मकस्वकक्षायां एकवार्षिककालेन एकवारम् । तदा तस्य उच्च-नीचगतिसंभवः च । स यदा परमोच्चस्थानं गच्छति तदा तस्य तदाकर्षकस्य च अन्तरं बृहदक्षाधिकभागसंज्ञितं भवति । तादृशबृहदक्षभागसम्मितोच्चं श्रीचक्रं कैलासप्रस्तारवद् इति ज्ञेयम् । एवं त्रिधा भवति रूपप्रस्तारः । अथ अर्धमेर्वाकृतिः इति मेरुपस्तारः तु उक्तमेरुप्रस्तारे एव अन्तर्भावः । इति सर्वम् अनवद्यम् । ____ इति श्रीपरिपूर्णप्रकाशनानन्द नाथ भारतीमहायतिकृतिषु श्रीदेव्युपायनीकृतः अयं प्रस्तारभास्करः । अथ प्रस्तारभास्करगतव्याख्या[फुटनोट्स] १. तत् = तस्मात्कारणात् ।। २. आत्मसान्निध्यवैभवात्-'श्रीशिवाशिवशक्त्यैक्यरूपिणी। ललिताम्बिका' इति श्रीललितासहस्रनामोक्ते ललितापरनाम्न्याः मूलप्रकृतेः आत्मसान्निध्यं नित्यं प्रतिभाति । अतः एव "कामेश्वरमुखालोककल्पितश्रीगणेश्वराः" इति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56