Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३ भावबोधिनीटीकासहिता करणसहितम् (इन्द्रियैः साक) जातम् । ततः बिन्दोः प्रथमं मूलाधाराद्वितयं = चतुर्दलात्मकमूलाधार-षड्दलात्मकस्वाधिष्ठान-रूपचक्रद्वयम् । अभवत् । एतद्वितयं यतः दशदलात्मकमभवत् ततः बिन्दुरूपसहस्रारः अपि दशधा (दशप्रकारम्) अभवद् इति उक्तः ॥४७॥ अथ मलाधारद्वितयानन्तरोत्पत्ति कथम्-- तदेतबिन्दोर्यद्दशकमभवत्तत्प्रकृतिक दशार सूर्यारं नृपदलमभूत्स्वान्तकमलम्' । रहस्यं कौलानां द्वितयमभवन्मूलसदनं तथाधिष्ठानं च प्रकृतिमिह सेवन्त इह ते ॥४८॥ पाठान्तराणि-०न्नेत्रकमलं । (२) तदा० । (३) ०मथ सेवन्त्विह च ते। उक्तप्रकारेण, बिन्दोर्यद्दशकमभवत्, मूलाधार-स्वाधिष्ठानदलदशकमभवत् तद्दशकमेव कारणं कृत्वा तदूर्ध्वं दशारं मणिपुरं तदुपरि स्वान्तकमलम् आज्ञाचक्रम् अभवत् । अत्र = एषु चक्रेषु । कौलानां मूलसदनं तथा अधिष्ठानं स्वाधिष्ठानम् एतद् द्वयं रहस्यमभवत् । एतद्द्वयस्य, इह (चक्रप्रस्तावे) सर्वचक्रप्रकृतित्वात्, तादृशप्रकृतिमेव, ते कौलाः सेवन्ते ॥४८॥ अथ कौल-समयिभेदनिरूपणम् अतस्ते कौलास्ते भगवति ! दृढप्राकृतजना इति प्राहुः प्राज्ञाः कुलसमयमार्गद्वय विदः । महान्तः सेवन्ते सकलजननीं बैन्दवगृहे शिवाकारां नित्याममृतझरिकामैन्दवकलाम् ॥४९॥ हे भगवति ! अतः एव ( यतः कौलाः प्रकृत्युपासकाः अतः एव ) दृढप्राकृतजनाः ( अविवेकिनः ) इति । कुल-समयोभय For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56