Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२
सुभगोदयस्तुतिः
भेदेन द्विधा विभिन्नैः किरणैः करणभूतैः पूजां कुर्वन्ति इति पूर्वेण अन्वयः । द्विधा सृष्टेः इति अत्र "विभालोके " इति पाठान्तरम् । तदा प्रतिबिम्बितकान्तिमयलोके इत्यर्थः वक्तव्यः ॥ ४५ ॥
अथ चक्रेोत्पत्तिकथनम्-
,
1
अधिष्ठानाधारद्वितयमिदमेवं' दशदलं सहस्राराज्जातं मणिपुरमतोऽभूद्दशदलम् । हृदम्भोजान्मूलान्नुपदलमभूत् स्वान्तकमलं तदेवैको बिन्दुर्भवति जगदुत्पत्तिकृदयम् ॥४६॥ पाठा०- (१) ०मेतद्दशदलं । (२) मणिपुरमितो० । अधिष्ठानाधारद्वितयं = स्वाधिष्ठानसहितमूलाधारम् । इदं = एतच्चक्रद्वयं दशदलात्मकं सहस्राराज्जातम् । तदुपरि मणिपुरम् अपि दशदलात्मकम् अभूत् । ततः ऊर्ध्वं हृदयकमलम् । तन्मूलात् = ( तस्मात् ) नृपदलं ( षोडशदलं ) विशुद्धचक्रं ततः स्वान्तकमलम् ( = आज्ञाचक्रम् ) अभूत् । एवं बहुप्रकारं विजृम्भितः एक: बिन्दुः एव जगदुत्पत्तिकृत् = मूलाधारादिसर्वच क्रोत्पत्ति( जगदुत्पत्ति ) कृद् भवति ॥ ४६ ॥
,
अथ उक्तार्थस्य भङ्ग्यन्तरनिरूपणम्
सहस्रारं बिन्दुर्भवति च ततो बैन्दवगृहं तदेतस्माज्जातं जगदिदमशेषं सकरणम् । ततो मूलाधाराद् द्वितयमभवत्तद्दशदलं सहस्राराज्जातं तदिति दशधा बिन्दुरभवत् ॥४७॥ पाठान्तरम् - ( १ ) न करणं ।
पूर्वश्लोकोक्त बिन्दुः नाम सहस्रारचक्रम् एव भवति । किं च तद् एव बैन्दवगृहम् । तस्माद् बिन्दोः एतत् जगत्, सकरणं =
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56