Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भावबोधिनी टीकासहिता
ततोऽभून्नागारं
नृपतिदलमस्मात्त्रिवलयं 'चतुर्द्वाः प्राकार त्रितयमिदमेवाम्ब शरणम् ॥ १७ ॥
पाठा० - - ( १ ) चतुर्धा । ( २ ) चरणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
बिन्दोः त्रिकोण - तैः त्रिकोणैः त्रिभिः अपि अन्तर्दशारं -- तद्बहिः
पुनः दशारं - तद्बहिः चतुर्दशारं - तदनन्तरम् अष्टदलपद्मं - तद्वहिः षोडशदलपद्मं - तद्बहिः वलयत्रयं तद्बहिः भूपुरत्रयम् इति । हे अम्ब ! ते गृहरूपं श्रीचक्रम् एव निरूपितम् ॥१७॥ अथ एतद्वरिवस्याप्रतिपादकतन्त्रप्रशंसा
चतुःषष्टिस्तन्त्राण्यपि 'कुलमतं निन्दितमभूद् यदेतन्मिश्राख्यं मतमपि भवेन्निन्दित मह | शुभाख्याः पञ्चैताः श्रुतिसरणिसिद्धाः प्रकृतयो महाविद्यास्तासां भवति परमार्थो भगवती ॥। १८ ॥
पाठा०- (१) कुलनुतं निन्दितमिदं तदेतत् । ( २ ) परमार्था; परमार्थो भगवति ।
अथ पञ्चदशीमन्त्रोद्धारः -
१३
कुलमतप्रतिपादक चतुष्षष्टितन्त्रसमूहः निन्द्यः एव मिश्राचारः अपि । हे भगवति । श्रुतिसिद्धशुभागमपञ्चकस्य पुनः ( सनक सनन्दन- सनत्कुमार- वसिष्ठ - शुक - नामकं संहितापञ्चकं पुनः ) वेदमार्गानुरुद्धत्वाद् विप्राचरणीयाः तदुदिताचाराः न अन्ये इति ॥ चतुष्पटितन्त्रनामानि सौन्दर्यलहरीव्याख्यायां लोल्ललक्ष्मीधरपण्डितकृतायां द्रष्टव्यानि ॥ १८ ॥
स्मरो मारो मारः स्मर इति 'परो मारमदनस्मरानङ्गाश्चेति स्मरमदनमाराः स्मर इति ।
For Private And Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56