Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० सुभगोदयस्तुतिः वदन्त्येके वृद्धा मणिरिति जलं तेन निबिडं परे तु त्वद्रूपं मणिधनुरितीदं समयिनः । अनाहत्या नादः प्रभवति सुषुम्णाध्वजनितस्तदा वायोस्तत्र प्रभव इदमाहुः समयिनः ॥२८॥ पाठा० – (१) लीननिबिडं । (२) सादः ।। एके वृद्धाः मणिः नाम जलम् इति, तेन निबिडं चक्रं [स्वाधिष्ठानं] द्वितीयम् एव भवति । एतदनुरुद्धम् एव सौन्दर्यलहरीप्रोक्तं मणिपुरस्य द्वितीयचक्रत्वम् । हे जननि ! परे समयिनः तु इदं त्वद्रूपं मणिधनुरिति = मणिधनुः [इन्द्रधनुः] कान्तिकान्तम् इति भाषन्ते । सुषुम्णानाडीमार्गमध्यजनितनादः तु अनाहताद् आरभ्य अभिव्यज्यते । अतः तदभिव्यञ्जनहेतुभूत-वायोः उत्पत्तिः अनाहते कथिता समयिभिः ॥२८॥ अथ अनाहतस्य संवित्कमलत्वकथनं तदुपर्याकाश-सदाशिवनिरूपणं च-- तदेतत्ते संवित्कमलमिति संज्ञान्तरमुमे भवेत्संवित्पूजा भवति कमलेऽस्मिन् समयिनाम् । विशुद्धाख्ये चक्र वियदुदितमाहुः समयिनः .. सदापूर्वो देवः शिब इति हिमानीसमतनुः ॥२९॥ हे उमे ! ते = त्वत्सम्बन्धि एतत्पूर्वश्लोकोक्तम् अनाहतचक्र यत् तस्य संवित्कमलम् इति संज्ञान्तरम् अस्ति । तत्र समयिनः कुर्वन्ति संवित्पूजाम् । अथ एतदुपस्थितविशुद्धाख्ये चक्रे । वियद् = आकाशः अजनि इति समयिनः प्राहुः । तदुपर्याज्ञाचक्राधिष्ठाता देवः, हिमानीसमतनुः = हिमसंहतिकान्तितुलितकान्तिमान् सदाशिवः इति च ॥२९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56