Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावबोधिनी टीकासहिता २५ सहस्रारपद्ये शिशिरमहसां चन्द्रतेजसां बिम्बम् अपरं परं , 1 न विद्यते यस्मात् तादृशम् (अद्वितीयम् इति भावः) प्रत्यक्षीभवति इति शेषः । तदेव श्रीचक्रम् इति सरघम् इति बैन्दवम् इति व्यवह्रियते ||३५|| , 1 अथ परमतनिरूपणम् -- वदन्त्येके सन्तः परशिवपदे तत्त्वमिलिते ततस्त्वं षड्विंशी भवसि शिवयोर्मेलनवपुः । त्रिखण्डेऽस्मिन् स्वान्ते परमपदपर्यङ्कसदने परे सादाख्येऽस्मिन् निवसति चतुधैक्यकलनात् ॥ ३६ ॥ पाठा० - (१) पट्शा । (२) चतुर्थैक्य० । एके सन्तः एवं वदन्ति । कथमिव ? हे भगवति ! कुण्डलिनीशक्तिस्वरूपिणि ! तत्त्वमिलिते सर्वतत्त्व (पञ्चविंशतितत्त्व) - मेलनरूप - परशिवपदे = सहस्रारे, (त्वं ) यतः लीना असि ततः त्वं षड्विशी भवसि । तथा भवितुं किं कारणम् इति चेत् शिवयोः मेलनवपुरूपा एव भवती । अतः शिवस्य पञ्चविंशति तत्त्वसंख्या, त्वाम् अनुसृता इति भावः । अतः त्वाम् एवं च कथयन्ति, सादाख्ये स्वान्तचक्रे ( आज्ञाचक्रे ) । त्रिखण्डे - तृतीयखण्डे, परे = उत्कृष्टे, परमपदपर्यङ्करूपसदाशिवस्थाने ( चतुर्विंशश्लोकोक्तरीत्या ) चतुर्धैक्य कलनात् सा कुण्डलिनीरूपिणी देवी निवसति, इति के सन्तः वदन्ति इति च पूर्वेण अन्वयः || ३६॥ = For Private And Personal Use Only अथ (चतुर्धैक्यकलनानन्तरं ) त्रिखण्डभावनायां त्रिधैक्य निरूपणम् ๆ ' क्षितौ वह्निर्वह्नौ वसुदलजले दिङ्मरुति दिक्कला मन्वधं दृशि 'वसुरथो राजकमले[लं] ।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56