Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुभगोदयस्तुतिः यदाज्ञायां .. विद्युन्नियुतनियुताभाक्षरमयी स्थिता विद्युल्लेखा भगवति ! विधिग्रन्थिमभिनत् ।३४। पाठा०-(१) प्रशुष्यद्वशन्त० । (२) सिता। पूर्वोक्तज्योतिःकारणं महाव्योमस्थेन्दोः = सहस्रारगतचन्द्रबिम्बात्, प्रसृतामृतलहरी या विद्यते तया प्लाविततनुः यस्य तादृशः भवति इति शेषः । स तावत् (पूर्वश्लोकोक्ताज्ञाचक्रस्थितशशिबिम्बे एव) तबिम्बः, प्रशुष्यद्वैनाडीप्रकरम् । उत, प्रशुष्यद्वैशन्त(स्थितनाडी)प्रकरं = शुष्यत्पल्बलम् इव भासमाननाडीमण्डलसमूहं (७२-सहस्रनाडीसमूहम्) अनिशं (सुधया) प्लावयति । एवं कदा भवेत् ? इति आकाङ्क्षायाम् । हे अम्ब ! यदा आज्ञायाम् = आज्ञाचक्र सहस्रविद्युत्पुञवद्भासमाना अक्षरमयी (नाशशून्या) कुण्डलिनी स्थिता सती ब्रह्मग्रन्थिम् अभिनत्, तदा इति पूर्वेण अन्वयः ॥३४॥ अथ कुण्डलिन्याः आज्ञाचक्रात् सहस्रारगमनं निरूप्य श्रीचक्रसरघाबैन्दवकथनम्-- ततो गत्वा ज्योत्स्नामयसमयलोकं समयिनां' पराख्या सादाख्या जयति शिवतत्त्वेन मिलिता। सहस्रारे पद्मे शिशिरमहसां बिम्बमपरं तदेव श्रीचक्र सरघमिति तबैन्दवमिति ॥३५॥ पाठान्तरम्-(१) ससमया। ततः = आज्ञाचक्रतः, गत्वा = ज्योत्स्नामयसमयलोकं (सहस्रारं) गत्वा इति यावत् । का ? समयिनाम् उपास्या पराख्या = परा-नाम्नी, सादाख्या या, तादृशी सा, शिवतत्त्वेन = सहस्रारस्थतत्त्वेन मिलिता सती, जयति = सर्वोत्कर्षेण वर्तते । तदा तत्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56