Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावबोधिनी टीकासहिता
खण्डोपरि ] भवेद् इति अन्वयः । एवं भगकोणैक्यकलनाद्
अन्वयः इति ॥
For Private And Personal Use Only
२७
अत्र भगपदेन सूर्य: स्मार्यते, अतः द्वादशसंख्या च । अत्र भूपुरे प्राकारत्रय सद्भावात् प्रत्येकप्राकारस्य चतुः कोण-सद्भावात् च आहत्य द्वादशकोणाः भवन्ति । अतः भगकोणैक्यकलनं बिन्दी युज्यते एव । बिन्दोः त्रिवृत्तस्वरूपत्वाद् [ दृश्यतां, सप्तदशः श्लोकः तद् एकत्र एव त्रिवृत्तास्तित्वं द्योतयति हि ] बिन्दु चतुष्कोणयोः अस्ति खलु अर्थसाम्यम् । एतेन पूर्णरूपबिन्दोः एकस्मिन् एव महीचक्रे [ भूपुरे ] समन्वय [ त्रिलीन ] प्रतिपादनेन एकस्मिन् परिमाणौ अपि बिन्दुसमन्वय: [लयः ] भवेद् इति विज्ञायते - 'सर्वं खल्विदं ब्रह्म' इति श्रुतेः ||३७|| इति मन्त्रचक्र क्यम् ॥
अथ क्रियापञ्चकसमामिति तडिद्रूपामिति च श्रीदेवीनिरूपणम्'षडब्जारण्ये त्वां समयिन इमे पञ्चकसमां यदा संविद्रूपां विदधति च षोढक्य' कलिताम् । मनो जित्वा चाज्ञा सरसिज इह प्रादुरभवत् तडिल्लेखा नित्या भगवति तवाधारसदनात् ||३८|| पाठा०- ( १ ) षडब्जारण्यैस्त्वां । ( २ ) ०कलितम् । (३) सरसिजमिह । हे भगवति ! इमे समयिन: त्वां षडब्जारण्ये = मूलाधारादिषट्चक्रदेशे, पञ्चकसमां = पञ्चकृत्यस्वरूपां [ सृष्ट्यादि पञ्चकृत्यपरायणाम् इति भावः ] अतः एव षोढैक्यकलितां संविद्रूपां = ज्ञानस्वरूपिणीं च, यदा, विदधति = भावयन्ति; किं कृत्वा ? मनो जित्वा तदा आज्ञासरसिजे, इह, तव [ त्वत्सम्बन्धिनी ] नित्या, तडिल्लेखा, आधारसदनात्, प्रादुरभवत् [ तेषाम् इति शेषः ] ॥ ३८ ॥
,

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56