Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावबोधिनीटीकासहिता २९ हे भगवति ! ते समयिनः तव त्रयः प्रस्ताराः याभिः प्रकृतिभिः अभवन् इति जगुः ताः तावद्, अ-क-च-ट-त-पादिशब्देन य-श-वर्गाऽऽद्यक्षरस्वरूपाः वशिन्याद्याः अष्टौ प्रकृतयः । ताः कथंभूताः ? स्वस्ववर्गस्थाः, वर्णाः = अक्षराः, ये तत्स्वरूपाः । स्वस्वायुधकलितहस्ताः स्वस्वविषयप्रवृत्तव्यापाराः । यथावर्ग = वर्गस्थवर्णानुगुणम् । प्रचुरतनवः = प्रकृष्टशरीराः [विस्तृतिवत्यः] । “तरवः” इति पाठान्तरे तु संसारातपाद् रक्षकाः । एवंप्रकारप्रकृत्यष्टकम् अत्र प्रस्तारत्रयविषये समयिनाम् उपकरणं भवति इति भावः । अत्र एतद्विवरणभूतः अस्मत्कृतः अस्ति प्रस्तारभास्करः नाम ग्रन्थः षड्वंशतिश्लोकात्मकः [स एव एतद्ग्रन्थान्ते द्रष्टव्यः ॥४०॥ अथ उक्तप्रस्तारत्रयविवरणम् इमा नित्या वर्णास्तव चरणसंमेलनवशान्महामेरुस्थाः 'स्युर्मनुमिलनकैलासवपुषः । वशिन्याद्या एता अपि तव सबिन्द्वात्मकतया महीप्रस्तारोऽयं क्रम इति रहस्यं समयिनाम् ॥४१॥ इति प्रस्तारत्रयनिरूपणम् । पाठ०-(१) स्थास्यन् मनु० । (२) च सहबि० । हे देवि ! नित्याः वर्णाः = अचः । तव चरणसंमेलनवशात् = ऐं श्री इत्यादि त्वच्चरणसंयोगवशात् । मेरुप्रस्तारः = त्वन्मन्त्रसंयोगवशात् कैलासप्रस्तारः च निष्पद्यते । एताः पूर्वश्लोकोक्ताः वशिन्याद्याः अपि अ-क-च-टादयः अपि बिन्दुसहिताः चेत् महीप्रस्तारः [भूप्रस्तारः] संपद्यते समयिनाम् इति रहस्यम् । एतद्ग्रन्थान्ते च एतद्विषयविशेषः द्रष्टव्यः ।। ४१।। इति प्रस्तारत्रयनिरूपणम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56