Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुभगोदयस्तुतिः अथ कौलादिपक्षाणां, मुनेश्च, स्वरूपनिरूपणम् भवत्साम्यं केचित् त्रितयमिति 'कौलप्रभृतयः परं तत्त्वाख्यं चेत्यपरमिदमाहुः समयिनः । क्रियावस्थारूपं प्रकृतिरभिधापञ्चकसमं तदेषां साम्यं स्यादवनिषु च यो वेत्ति स मुनिः ॥३९॥ इत्यैक्यनिरूपणम् । पाठा०- (१) कौम्भप्र० । (२) चेत्स पर इद०; परमिद० । __(३) त्वामवनिषु। हे भगवति ! केचित्कौलप्रभृतयः = पूर्वकौलोत्तरकौलादयः केचन, त्रितयमिति = सृष्टि-स्थिति-लयरूप-त्रितयम् एव, भवत्साम्यं = भवद्रूपम् इति मन्यन्ते । इह = एतत्संदर्भे, समयिनः तु परं तत्त्वं च आहुः । अपि च अपरम् इदं वक्ष्यमाणम् आहुः । किं तत् ? प्रकृतिः = मूलप्रकृतिः, क्रियावस्थारूपं यत् । अभिधापञ्चकसम = सृष्टि-स्थिति-संहार-तिरोधानानुग्रह-इत्यभिधापञ्चकं यत् तत्समम्, एषां = समयिनां, साम्यं स्याद् इति शेषः । एतदुभयं यः वेत्ति सः मुनिः = मौनी अद्वैती इति यावत् ॥३९॥ इत्यैक्यनिरूपणम् ॥ अथ प्रस्तारत्रयप्रकृतिनिरूपणम्-- वशिन्याद्या अष्टावकचटतपाद्याः प्रकृतयः स्ववर्गस्थाः स्वस्वायुधकलितहस्ताः स्वविषयाः। 'यथावगं वर्णप्रचुरतनवो याभिरभवस्तव प्रस्तारास्ते त्रय इति जगुस्ते समयिनः ॥४०॥ पाठा०-(१) यदा वर्गा वर्णप्रचुरतरवो। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56