Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुभगोदयस्तुतिः प्रतिद्वैतग्रन्थिस्तदुपरि चतुर्दारसहितं "महीचक्र चैकं भवति भगकोणक्यकलनात् ॥३७॥
इति मन्त्रचक्रैक्यम् ॥ पाठान्तराणि-(१) महावह्नि। (२) कलारे। (३) वसुरथो। (४) प्रतिद्व्यैतद्ग्रन्थि० । (५) महाचक्रं । क्षितिः = मूलाधारम्। जलं = स्वाधिष्ठानम् । मरुत् = अनाहतम् । कलास्र = विशुद्धम् । दृक् = आज्ञाचक्रम् इति शरीरचक्राणि । वह्निः = त्रिकोणम् । वसुदलं = अष्टास्रम् । दिक् = दशारम् । मन्वस्त्रं = चतुर्दशारम् । वसुः = वसुदलम् । राजकमलं = षोडशदलम् इति श्रीचक्रस्थचक्राणि । एवं प्रथम ज्ञातव्यम् । अथ अन्वयः, क्षितौ वह्निः एक्यम् अभूद् इति भावयेत् । वह्नौ तु वसुदलजले ( अष्टास्रस्वाधिष्ठानचक्रे भावयेत् नाम; तयोः ऐक्यं भावयेत् ) एतावता प्राथमिकः अग्निखण्ड: निरूपितः भवति । अथ दिङ्मरुति, दशदलात्मकमणिपुर-विशिष्ट-मरुति = अनाहते; दिक् = दशारद्वयं विलीनं भवति । अत्र मरुन्नाम वायुः, एतेन सूर्यः लक्ष्यते । यथा, 'नभांसि जुहोति' ( तै० ब्रा० ३-८-१८ ) इत्यादिना, वायुः नाम रुद्रः इति । 'रुद्रो वा एष यदग्निः,' 'उतैनं गोपा अदृशन्नदृशन्नुदहार्यः' ( नमकम् ) इत्यादिश्रुतिभिः रुद्रः नाम सूर्यः इति च विज्ञायते । अतः एतेन द्वितीयः सूर्यखण्ड: निरूपितः । अथ कलाश्रे ( विशुद्धचक्रे ) मन्वत्रं (चतुर्दशारम्) । दृशि आज्ञाचक्रे वसुः वसुदलं विलीनं स्यात् । राजकमलं षोडशदलपद्मं च, विलीनं स्याद् इति शेषः । अनेन सोमखण्ड: निरूपितः । तदुपरि, प्रतिद्वैतग्रन्थिः = द्वैतपरिपन्थी [ केवलाद्वैतप्रतिपादक: बिन्दुः] चतुर्दारसहितमहीचक्रं भूपुरं च एकं भूत्वा। उपरि = सर्वोपरि [ सोम
For Private And Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56