Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावबोधिनीटीकासहिता अथ विशुद्धचक्रे देवीपूजायाः, सहस्रारे नित्याकलायाः च विवरणम् त्वदीयरुद्योतेर्भवति च विशुद्धाख्यसदनं । भवेत्पूजा देव्या हिमकरकलाभिः समयिनाम् । सहस्रार चक्र निवसति कलापञ्चदशकं तदेतन्नित्याख्यं भ्रमति सितपक्षे समयिनाम् ॥३०॥ हे जननि ! त्वदीयैरुद्योतैः = त्वत्कान्तिभिः । विशुद्धचक्र समयिनां पूजाकाले, भवति = उद्योतितं भवति इति भावः । तत्र चन्द्रकलाभिः तव पूजां कुर्वन्ति समयिनः । अतः ऊवं सहस्रारे पञ्चदशचन्द्रकलाः सदा निवसन्ति । अतः तन्नित्याख्यं नित्यासंज्ञितं चन्द्रकलापञ्चदशकं समयिनां शुक्लपूजायां परिभ्रमन् आस्ते ॥३०॥ अथ समयिनां शुक्लपक्षपूजाकारणं, ब्रह्मग्रन्थ्यादित्रयविवरणं च अतः शुक्ले पक्षे 'प्रतिदिनमिह त्वां भगवती निशायां सेवन्ते निशि चरमभागे समयिनः । शुचिः स्वाधिष्ठाने रविरुपरि संवित्सरसिजे शशी चाज्ञाचक्र हरिहर(हरहरि)विधिग्रन्थय इमे ॥३१॥ पाठान्तरम्-(१) प्रतिदिनमहस्त्वां । हे देवि ! अतः = पूर्वश्लोकोक्तकारणेन, शुक्लपक्षे प्रतिदिनम् । इह [अस्य पाठान्तरम्] अहः = अहःकाले = ज्योत्स्नाविशिष्टरात्रिपूर्वभागे इत्यर्थः । तथा निशापक्षे तु [कृष्णपक्षे तु] निशि, चरमभागे, समयिनः तव पूजां कुर्वन्ति । अथ ग्रन्थिविवरणम्, अग्निः स्वाधिष्ठाने, तदुपरि अनाहते रविः, तदन्तरम् आज्ञाचक्रे [भ्रूमध्ये] चन्द्र :, एवं स्थितेषु चक्रेषु विलोमेन, हरहरि-विधिग्रन्थयः वर्तन्ते इति शेषः । तथा च उक्तं ललितासहस्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56