Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
सुभगोदयस्तुतिः हल: = कादिक्षान्ताः, बिन्दुः [च]; वर्गाष्टकं = क-च-ट-त-प-यश-ळ-वर्गादिवर्णैः युतः बिन्दुवर्गाष्टकं भवति, तल्लयस्थानम् [ एतेन आराधितम् ] इभदलं = अष्टदलचक्रं पूर्वश्लोकोक्तषोडशदलादि-चक्रत्रयसहितं चतुश्चक्रं शांभवशरीरं स्यात्; तथा शक्रस्थितं = शक्रोपरिस्थितं, चतुर्दशारोयस्थितम् इत्यर्थः । एतेन शक्तिचक्रचतुष्टयं स्मारितम् । शक्तिशिवयोः एतदुभयम्, अनुभयम् एव-अद्वैतम् एव-एकम् एव इति अर्थः । शक्तिचक्र-चतुष्टयं तु, "त्रिकोणे ते वृत्त०' इत्याद्येकादशश्लोकोक्तम् इति ज्ञेयम् । निशाद्याः = कृष्णपक्षप्रतिपदाद्याः, दर्शाद्याः = शुक्लपक्षप्रतिपदाद्याः च; पञ्चदशधा = पञ्चदश-पञ्चदशप्रकारेण तिथयः । श्रुतिगदिताः सन्ति, ताः तावत्, हे जननि ! तव मन्त्राक्षरगणाः भवन्ति। अत्र निशाद्याः नाम कृष्णपक्ष-प्रतिपदाद्याः इति अर्थः, यथा"निशाद्याः' इत्यत्र निशापदेन लक्षणया तमः गृह्यते, तस्य तल्लक्षणत्वात् तादृशतमसः अस्मिन् पक्षे [रात्रिषु ज्योत्स्नाह्रासभावेन] क्रमवृद्धिमत्त्वाद्, अस्य पक्षस्य तमःपक्षः इति कृष्णपक्षः इति निशापक्षः इति वा प्रसिद्धेः तत्तथोक्तम् ।।२५।। अथ षोडशीशशिकलाविवृतिः अयम्-अक्-प्रत्याहारविवरणं च
इमास्ताः षोडश्यास्तव च सरघायां शशिकलास्वरूपायां लीना निवसति तव श्रीशशिकला। अयं प्रत्याहारः श्रत इह कलाव्यञ्जनगणः
ककारेणाकारः स्वरगणमशेषं कथयति ॥२६॥ हे जननि ! इमाः पूर्वोक्ताः नित्यास्थानीयाः; ताः = शशिकलाः । तव शशिकलास्वरूपायां सरघायां लीनाः । तव, षोडश्याः ( चतुष्कूटासम्बन्धिन्यः ) श्रीशशिकला ( सादाख्या )
For Private And Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56