Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुभगोदयस्तुतिः ऋषि हित्वा चास्या हृदयकमले नंतमृषिमि त्यूचाभ्युक्तः पूजाविधिरिह भवत्याः समयिनाम् ॥२२॥ इह = मनु-चन्द्रादिद्वादशविद्यासु । यस्य मनोः = यद्विद्यायाः । विदेहेन्द्रापत्यं ऋषिः ("विदेहो नैर्ऋत्याः सुत इह ऋषिर्यः स च' इति पाठान्तरम्)एतत्पाठद्वये अपि मन्मथः ऋषिः इति विज्ञायते । (तादृशी कादिविद्या समयिनाम् उपास्या इति एतच्छ्लोकोत्तरार्धन अवगम्यते) अयम् अर्थः च सम्यक् तैत्तिर्यकश्रुतिशिरसि "पुत्रो निर्ऋत्या वैदेहः' इत्यादिश्रुतिशिरसि (उपनिषदि अस्ति इति शेषः) किं च, ऋषि हित्वा च = ऋषिन्यासादि-बाह्यक्रियाकलाप हित्वा अपि । हृदय-कमले = मनसि । अस्याः = कादिविद्यायाः (अनुसंधानं कार्यमिति)। "नैतमृषि विदित्वा नगरं प्रविशेद्" इत्यादिमन्त्रखण्डेन विदधाति श्रुतिः । इह भवत्याः पूजाविधिः । समयिनां = समयिभ्यः । अभ्युक्तः = उपासकं प्रति चोदनापूर्वकम् उक्तः इति भावः ॥२२॥ अथ त्रिखण्ड-मन्त्र-सरघा-षडब्जानामन्योन्यसंबन्धनिरूपणम् त्रिखण्डस्त्वन्मन्त्रस्तव च सरघायां निविशते श्रियो देव्याः शेषो यत इह समस्ताः शशिकलाः । त्रिखण्डे त्रैखण्डयं निवसति समन्त्रे च सुभगे षडब्जारण्यानि त्रितययुतखण्डे निवसति ॥२३॥ सुभगे हे देवि ! तव मन्त्रः त्रिखण्डः । स तु, तव सरघायां निविशते (ऐक्यं भवति इति भावः) यतः, समस्ताः = सादाख्यकलासहिताः शशिकलाः । इह = सरघायां निवसन्ति । (ततः) श्रियः देव्याः, शेषश्च = शेषभूत-'श्रीं'-रूपचतुर्थखण्डः च निवसति इति अन्वयः । तद्यथा, त्रिखण्डे, त्रैखण्ड्यं = चन्द्रसूर्याग्न्यात्मक For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56