Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावबोधिनीटीकासहिता
अथ मातृकाप्रत्याहारकथनम्
ककाराकाराभ्यां स्वरगणमवष्टभ्य निखिलं कलाप्रत्याहारात् सकलमभवद् व्यञ्जनगणः । त्रिखण्डे स्यात्प्रत्याहरणमिदमन्वक्कषयुगं क्षकारश्चाकारोऽक्षरतनुतया चाक्षरमिति ॥२१॥ पाठान्तर-(१) ०मञ्चत्कषयुगं । ककार-अकारयोः विलोमेन संयोगात् “अक्” इति प्रत्याहारः भवति, तत् षोडशस्वरसूचकः [अत्र अकाराद्याः षोडश अपि स्वराः अक् शब्दबहुवचनरूपेण (अचः इति रूपेण अचः स्वराः इति) स्मारिताः] तथा ककाराद्यः लकारः "कला'' इति प्रत्याहारेण सर्वः अपि व्यञ्जनगणः (३५-व्यञ्जनरूपः गणः) स्मारितः । एवं खण्डद्वयं दर्शितम् । अथ तृतीयखण्डे तृतीयखण्डविषये । अन्वक् = अनुपदम् एव कषयोः योगेन क्षकारः जातः (क्ष इति प्रत्याहारः जातः इति भावः)-अयं आद्यक्षरेण अकारेण युतः सन् “अक्ष'' इति रूपसिद्धौ सत्यां मातृकायाः अक्षरत्वाद् “अक्षरः' इति व्यवहारः जातः ॥ अत्र व्यञ्जनेषु, क-षयुगग्रहणस्य कः हेतु इति विचारिते व्यञ्जनान्त्यत्रिवर्णेषु “ळ-'' कारस्य लकारप्रकृतिकत्वात्, स-ह-वर्णयोः जगदतीत-प्रकृति-पुरुषप्रतीकत्वात् च, तान् विहाय क-ष-योः योगरूपः क्षकारः प्रत्याहारः कृतः इति गम्यते ॥२॥ अथ मन्त्रस्य ऋषि-सपर्यानिरूपणम्-- 'विदेहेन्द्रापत्यं श्रुत इह ऋषिर्यस्य च मनो
रयं चार्थः सम्यक् श्रुतिशिरसि तैत्तिर्यकऋचि । पाठान्तरम् - (१) विदेहो नैऋत्याः सुत इह ऋषिर्यः स च ।
For Private And Personal Use Only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56