Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावबोधिनीटीकासहिता
१७ त्रिखण्डसंबन्धि, इदं “त्रिखण्डं ते चक्रम्' इत्याद्यष्टमश्लोकरीत्या; तथा तव मनुः अपि “त्रिखण्डे त्वन्मन्त्रे' इत्यादिविंशतिश्लोकरीत्या; षडब्जारण्यानि इति तावत् “त्रिकोणं चाधारम्' इत्यादि-दशमश्लोकरीत्या; त्रितययुतखण्डे निवसति ॥२३॥ अथ खण्डत्रयस्य स्वान्तलयनिरूपणपूर्वकं, षोडशदलादित्रिचक्रेषु एव मातृकालयनिरूपणम्
त्रयं चतत्स्वान्ते परमशिवपर्यङ्कनिलये परे 'सादाख्येऽस्मिन् निवसति चतुर्थैक्यकलनात् । स्वरास्ते लीनास्ते भगवति कला च सकलाः ककाराद्या वृत्ते तदनु चतुरश्रे च यमुखाः ॥२४॥ पाठान्तरम्-(१) सादाख्यास्मिन् । हे परमशिवपर्यङ्कनिलये ! इति देवीसम्बोधनम् । उक्तखण्डत्रयं, स्वान्ते = आज्ञाचक्र, सादाख्ये निवसति लयम् आप्नोति इत्यर्थः । तल्लयः, चतुर्थंक्यकलनाद् इति ज्ञापयति । अथ, मातृका सर्वा अपि श्रीचक्रस्थषोडशदल-वृत्तत्रय-भूपुरत्रयरूपस्थानत्रये एव यथाक्रमम् । षोडश-स्वराः, पञ्चविंशति[२५]कादयः, यमुखाः दश च, चतुर्थंक्यकलनाद् विलीनाः स्युः । भगवति इति देवीसम्बोधनम् ॥२४॥ अथ उक्तषोडशदलादिशिवचक्रत्रयपूरकमिभदलं शांभवमिति शिवशक्तिचक्रचतुष्टययोः अभेदमिति च निरूप्य नित्यास्वरूपकथनम्
हलो बिन्दुर्वर्गाष्टकमिभदलं शांभववपुश्चतुश्चक्रं 'शक्कस्थितमनुभयं शक्तिशिवयोः । निशाद्या दर्शाद्याः श्रुतिनिगदिताः पञ्चदशधा
भवेयुनित्यास्तास्तव जननि मन्त्राक्षरगणाः ॥२५॥ पाठा०--(१) शक्तास्थित०; शक्तौ स्थित०। (२) पञ्चदश ता । (३) भवेयुनित्याप्तास्तव ।
For Private And Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56