SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावबोधिनीटीकासहिता १७ त्रिखण्डसंबन्धि, इदं “त्रिखण्डं ते चक्रम्' इत्याद्यष्टमश्लोकरीत्या; तथा तव मनुः अपि “त्रिखण्डे त्वन्मन्त्रे' इत्यादिविंशतिश्लोकरीत्या; षडब्जारण्यानि इति तावत् “त्रिकोणं चाधारम्' इत्यादि-दशमश्लोकरीत्या; त्रितययुतखण्डे निवसति ॥२३॥ अथ खण्डत्रयस्य स्वान्तलयनिरूपणपूर्वकं, षोडशदलादित्रिचक्रेषु एव मातृकालयनिरूपणम् त्रयं चतत्स्वान्ते परमशिवपर्यङ्कनिलये परे 'सादाख्येऽस्मिन् निवसति चतुर्थैक्यकलनात् । स्वरास्ते लीनास्ते भगवति कला च सकलाः ककाराद्या वृत्ते तदनु चतुरश्रे च यमुखाः ॥२४॥ पाठान्तरम्-(१) सादाख्यास्मिन् । हे परमशिवपर्यङ्कनिलये ! इति देवीसम्बोधनम् । उक्तखण्डत्रयं, स्वान्ते = आज्ञाचक्र, सादाख्ये निवसति लयम् आप्नोति इत्यर्थः । तल्लयः, चतुर्थंक्यकलनाद् इति ज्ञापयति । अथ, मातृका सर्वा अपि श्रीचक्रस्थषोडशदल-वृत्तत्रय-भूपुरत्रयरूपस्थानत्रये एव यथाक्रमम् । षोडश-स्वराः, पञ्चविंशति[२५]कादयः, यमुखाः दश च, चतुर्थंक्यकलनाद् विलीनाः स्युः । भगवति इति देवीसम्बोधनम् ॥२४॥ अथ उक्तषोडशदलादिशिवचक्रत्रयपूरकमिभदलं शांभवमिति शिवशक्तिचक्रचतुष्टययोः अभेदमिति च निरूप्य नित्यास्वरूपकथनम् हलो बिन्दुर्वर्गाष्टकमिभदलं शांभववपुश्चतुश्चक्रं 'शक्कस्थितमनुभयं शक्तिशिवयोः । निशाद्या दर्शाद्याः श्रुतिनिगदिताः पञ्चदशधा भवेयुनित्यास्तास्तव जननि मन्त्राक्षरगणाः ॥२५॥ पाठा०--(१) शक्तास्थित०; शक्तौ स्थित०। (२) पञ्चदश ता । (३) भवेयुनित्याप्तास्तव । For Private And Personal Use Only
SR No.020762
Book TitleSubhagoday Stuti
Original Sutra AuthorN/A
AuthorPrithvi K Agrawala, Rama Adhar Pathak
PublisherPrithvi Prakashan
Publication Year1984
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy