Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२ सुभगोदयस्तुतिः शोभमाना मणिपुरे एव । यतः भवत्पाणिव्रातः शृङ्गारादिनवरसरूपः । अत्र शृङ्गारादयः नव एव अपि शान्तस्य सगुणनिर्गुणभेदेन द्विधा भिन्नत्वात् तेषां दशत्वसिद्धिः । किं च अत्र शान्तस्य ब्रह्मालम्बत्वेन । तस्य नादब्रह्मोपकरणत्वेन च । तन्नादजनकत्वाद् वीणायाः तद्ग्रहणं पाणिभ्याम् उक्त्वा । सम्पादिता दशसंख्या देवीभुजानाम् इति रहस्यम् । यः एवं तव वपुः प्रत्यक्षम् उपास्यते तस्य इतः परं श्रेयस्करं न अस्ति ॥ १५ ॥ इत्येक्यनिरूपणम् ॥ अथोक्तदशभुजस्थपदार्थनिरूपणम् भवानि ! श्रीहस्तैर्वहसि फणिपाशं सृणिमथो धनुः पौण्ड्रं पौष्पं शरमथ जपस्रक्शुकवरौ ॥ अथ द्वाभ्यां मुद्रामभयवरदानेक रसिकां क्वणद्वीणां द्वाभ्यां त्वमुरसि कराभ्यां च बिभूषे ।। १६ ।। पाठा०- (१) रसिके । (२) उरसि च । Acharya Shri Kailassagarsuri Gyanmandir हे भवानि ! त्वम् । त्वद्धस्तैः दशभिः नागपाशादीन् वहसि । तेषां विवृतिः पूर्वश्लोकानुबन्धेन द्रष्टव्या । यथा, "रागस्वरूपपाशाढ्या क्रोधाकाराङ्कशोज्वला " इति उक्तः करुणारसधर्मवद्रागस्य बन्धहेतुत्वात् पाशत्वं रौद्ररसधर्मवत्क्रोधस्य वशीकरणहेतुत्वाद् अङ्कशत्वं यथा उपपद्यते तथा एव अवशिष्ट - धनुर्बाणादीनां रूपाणि उन्नेयानि शृङ्गारादिभिः इति सूचयामः ॥१६॥ अथ श्रीचक्रस्वरूपवर्णनम् - त्रिकोणैरष्टारं त्रिभिरपि दशारं समुदभूद् दशारं भूगेहादपि च भुवनाश्रं समभवत् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56