Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० सुभगोदयस्तुतिः ऐक्यं कथितम् । हे उमे ! इति संबुद्धिः । भगे = श्रीविषये श्रीचक्रविषये । शाक्तिकं = शक्तिचक्रेक्यम् एवं निरूपितम् । एवम् उक्त्वा प्रधानैक्यं षोढा समयिनाम् इति सूचितं च ॥११॥ अथ पूर्वसूचितसमयिचक्रक्यनिरूपणम् कलायां विन्द्वक्यं तदनु च तयो दविभवे तयोर्नादनक्यं तदनु च कलायामपि तयोः । तयोबिन्दावैक्यं त्रितयविभवैक्यं परशिवे तदेवं' षोढेक्यं भवति हि सपर्या समयिनाम् ॥१२॥ पाठान्तरम्-(१) तथैवं । समयिनां पुनः “अग्रबिन्दुपरिकल्पिताननाम्' इत्यादिना सपर्या सम्पद्यते हि । अतः तेषां कला-नाद-बिन्द्वाख्यवस्तूनि प्रधानानि त्रीणि; एतत्त्रयस्य अन्योन्यकलनया षड्विधैक्यं निरूपितम् । यथा, कलायां बिन्दुयोगः । नादे तावत् कलाबिन्द्वोः योगः । बिन्दुकलयोः नादेन योगः । तथैव कलायां बिन्दुकलयोः योगः । एवमेव बिन्दौ नादकलयोः ऐक्यम् । षष्ठं पुनः परशिवे कलानादबिन्दूनाम् ऐक्यम् । एवं षडधा समयिसपर्या निरूपिता । एवम् अन्योन्यकलनायां फलविशेषजननविषये अस्ति दृष्टान्तः । यथा “आज्ये मधूतं पीयूषं, मधुन्याज्यं विषं तथा' [ब्रह्मसिद्धान्ते] इति । एवम् एव अत्र अपि इति ज्ञेयम् ॥१२॥ अथ चरणषडब्जयोः मेलनम् उक्त्वा समयिनां चतुर्थंक्यकथनम् कला, नादो, बिन्दुः, क्रमश इह वर्णाश्च चरणं षडब्जं चाधारप्रभृतिकममीषां च मिलनम् । 'तदेवं षोडैक्यं भवति खलु येषां समयिनां चतुर्थैक्यं तेषां भवति हि सपर्या समयिनाम् ॥१३॥ पाठान्तरम्--(१) तथैवं । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56