Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावबोधिनीटोकासहिता अथ श्रीचक्रस्थबिन्द्वादिसप्तकस्य मूलाधारादिसप्तकभावनानिरूपणम्
त्रिकोणं चाधारं 'त्रिपुरतनु तेऽष्टारमनघे भवेत्स्वाधिष्ठानं पुनरपि दशारं मणिपुरम् । दशारं ते संवित्कमलमथ मन्वस्रकमुमे विशुद्धं स्थादाज्ञा शिव इति ततो बैन्दवगृहम् ॥१०॥ पाठान्तराणि--(१) त्रिभुवननुते; त्रिभुवननुतेष्वार० ।
(२) तव स्वाधिष्ठानं भगवति । हे त्रिपुरतनु ! "त्रिभुवननुते' इति पाठान्तरम् । तत्पक्षे, त्रिलोकस्तुते, हे अनघे ! हे देवि ! त्वत्प्रतीकश्रीचक्रस्थत्रिकोणं मूलाधारचक्रम् इति---अष्टारं स्वाधिष्ठानम् इति--द्वितीयदशारं मणिपुरम् इति-अन्तर्दशारं संविच्चक्रं नाम् हृदयम् इतिमन्वस्रं तु विशुद्धम् इति—आज्ञाचक्रं शिव सदाशिव कमलम् इति–ततः ऊर्ध्वं बैन्दवगृहम् इति [सहस्रारम् इति] योगिभिः उपास्यते ॥१०॥ अथ शिवशक्तिचक्रेक्यनिरूपणम्
त्रिकोणे ते वृत्तत्रितयमिभकोणे वसुदलं कलाकं मिश्रारे भवति भुवनाश्रे'च भुवनम् । चतुश्चक्रं शैवं निवसति भगे शाक्तिकमुमे प्रधानक्यं षोढा भवति च तयोः शक्तिशिवयोः ॥११॥ पाठा०-(१) त्रिभुवनम् । (२) दशे शाक्तिकमुभे; भगे शाक्तकमुमे । शिवचक्राणि चत्वारि-वृत्तत्रयं, वसुदलं, षोडशदलं, भूपुरत्रयम् इति । एतेषां क्रमेण चतुर्विधशक्तिचक्रेषु, त्रिकोण-वसुकोणदशारयुग्म [अन्तर्दशार-बहिर्दशार-रूपमिश्रार] - चतुर्दशारात्मकेषु
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56