Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावबोधिनीटीकासहिता निरूपणम् । अत्र उक्तमयूखानां तत्त्वेषु विभजनं, श्रीमदाचार्यैः सौन्दर्यलहाँ "क्षितौ षट् पञ्चाशद्" इत्यादिश्लोके निरूपितम् । किं च अत्र मयूखसंख्याबोधकस्य षट्त्रिंशद्दश-''पदस्य षट्त्रिंशत्संख्याक-दशसंख्या इति अर्थः वक्तव्यः-तदा, दशगुणिता षट्त्रिंशद् [३६०] इति भवति ॥८॥
अथ उक्तमयूखानां खण्डविभजनं तेषां कालसम्बन्ध-सद्भावात्, तदतीतत्वं देव्याः निरूपणम्
शतं चाष्टौ वह्नः शतमपि कलाः षोडश रवेः शतं षट्' च त्रिंशत् सितमयमयूखाश्चरणजाः । य एते षष्टिश्च त्रिशतमभवंस्त्वच्चरणजा' *महाकौलस्तस्मान्न हि तव शिवे कालकलना ॥९॥ पाठान्तराणि-(१) षट्त्रिंशद्वै; षट्त्रिंशद्वै सितमयि ।
(२) चरणगा । (३) महाकालस्तस्मात् । तेषां मयूखानां मध्ये अष्टोत्तरशतसंख्याकाः वह्निसम्बन्धिनः; तथा रविसम्बन्धिनः षोडशोत्तरशतसंख्याकाः; षट्त्रिंशदुत्तरशतसंख्याकाः तु सोमसम्बन्धिनः इति निरूप्य; ते सितमयाः = सितविकाराः, सितजन्याः इति भावः । सितं नाम निर्मलवस्तु-परमात्मेति यावत् । ते; कालात्मकाः तव चरणजाः इति निरूप्य देव्याः तावत् तादृशकालकलनाव्यापारासाध्यत्वेन [तदसाध्यत्वं यथा-तेषां मयूखानां कालत्वकलनात् । महाकालपदेन, तद्भिन्नः महाकाल: अस्ति इति निरूप्य । तस्मात् = तस्मात् कारणाद् (यत्कारणेन महाकालरूपात्परमात्मनः तव अभेदत्वं वक्ष्यमाणरीत्या सिध्यति तस्मात्कारणाद् इत्यर्थः) देव्याः कालकलनाव्यापारासाध्य
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56