Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुभगोदयस्तुतिः त्वम् उपपन्नम्; तेन. हे शिवे ! तादृशकालकलना तव न अस्ति इति; कालातीतत्वं देव्याः निरूपितम् । आचार्यः अपि तथा"मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम्” इति सौन्दर्यलहरू निरूपितम् । अत्र "महाकौलै:'इतिपदस्य “महाकाल:' इति पाठान्तरम् । तदनुरुद्धा इयं टीका । किं च, “त्वच्चरणजाः” इति अत्र किञ्चिद् वक्तव्यम् । देव्याः चरणौ नाम-बिन्दुरूपस्य' अस्तिपदवाच्यस्य परमात्मनः त्रिज्यास्थानीयमायाविर्भावेन समवृत्तत्वे सिद्धे तच्चरणभूत-नीचोच्चसंज्ञकपदयोः (केन्द्र च्युतिवशादुद्भूतयोः) संयोगात्समवृत्तस्य दीर्घवृत्तत्वसिद्धिः [त्रिनाभिचक्रत्वसिद्धिः तत्स्मारकम् इदं "त्वच्चरणजाः' इति पदम् । श्रीमदाचार्यः अपि उक्तं सौन्दर्यलहरीं- "मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम्" इति। किं भोः ! खेटगतिमार्गभूतदीर्घवृत्तीयनीचोच्चयोः, श्रीदेवीचरणयोः च कः सम्बन्धः ? इति आक्षेपस्य समाधान खेटानां कषकं परितः भ्रमणं यया शक्त्या सम्पद्यते सा एव श्रीदेवीरूपा इति वदामः । तथा च श्रूयते-"त्रिनाभिचक्रमजरमनर्वं येनेमा विश्वा भुवनानि तस्थुः' इति । अस्य अयं भावः, श्रीदेवीरूपशक्ति विना न उपपद्यते ग्रहाणां भ्रमणं, न तं विना विनाभिचक्रप्रादुर्भावः, न विना तादृशचक्रं सर्वभुवनानां प्रस्थान सम्भवति । अतः भ्रमणहेतुभूता शक्तिः एव श्रीदेवी इति भाषणे न दोषः ॥९॥ 1. बिन्दु = Point, तस्य लक्षणम्-A point is a position, without magnitude. Position = अस्तित्वम् (अस्ति भाति प्रियं इत्युक्तब्रह्मलक्षणत्रयान्तर्गत-अस्तिपदार्थमेव अस्तित्वम्) ॥ 2. तस्थुः = प्रतस्थुः; प्रयाणमकुर्वन्तेति भावः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56