Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुभगोदय स्तुतिः
अपरे पुनः समयिनः । चतुष्कोणं = चतुरस्रं [ = सुन्दरम् ] । बैन्दवम् इति चतुष्कोणबिन्द्वोः अंशसाम्यत्वात् बैन्दवम्; बिन्दुस्थानम् एव मूलस्थान - प्रतीकम् इति च भावयन्ति । चतुरस्र - पदस्य सुन्दरार्थे प्रयोगः, " बभूव तस्याश्चतुरस्रशोभि, वपुर्विभक्तं नवयौवनेन" [ कुमारसम्भवम् १।३७ ] इति । हे देवि ! त्वम् । तस्मिन् सुधासिन्धौ । सुरमणिगृहे = देवरत्नगृहे, चिन्ता - मणिगृहे इति भावः, चिन्तामणिः नाम देवीध्यानरूपम् अत्युत्तमरत्नं तन्मयगृहे इति तात्पर्यम् । तस्य चिन्तामणिगृहस्य समयसहिते इति विशेषणम् अत्र समयः नाम शिवशक्त्यैक्यस्य योगसमयः [ काल: ], तादृशसमयविशिष्टगृहे इति भावः । यतः इदं गृहं सगुणप्रपञ्चप्रवृत्तिहेतुक सूर्यशिशिरश्मीनाम् अगम्यत्वविशिष्टम् । तादृशरहस्यगृहे त्वं विहरसि इति देवीस्तुतिः ॥ ७॥ अथ देवीवासगृहनिरूपणम्-
त्रिखण्डं ते चक्रं शुचिरविशशाङ्कात्मकतया मयूखैः षट्त्रिंशद्दशयुततया खण्डकलितैः । पृथिव्यादौ तत्त्वे पृथगुदितवद्भिः परिवृतं भवेन्मूलाधारात्प्रभृति तव षट्चक्रसदनम् ||८| पाठान्तराणि - ( १ ) षट्त्रिंशत्त्रिशतयुतमाखण्ड ०; षट्त्रिंशच्छतयुततया । (२) भवेन्मूलाधारप्रभृति ।
हे देवि ! तव सृष्टिरूपं चक्रम् अग्नि-सूर्य-चन्द्रात्मकत्वेन त्रिधा विभक्तम् । अतः तेषाम् अग्न्यादीनां मयूखाः सर्वे मिलिताः, ये षष्ट्यधिकत्रिशतसंख्याकाः ते पुनः पृथिव्यादिमनोन्तषट्तत्त्वेषु विभक्ताः सन्तः ब्रह्माण्डप्रतीकभूतपिण्डाण्डे मूलाधारादिषट्चक्ररूपसदने प्रतिभान्ति । तादृशं तव वासगृहम् इति देवीवासगृह
For Private And Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56