Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुभगोदयस्तुतिः भुजगी च = कुण्डलिनी। क्षुत्क्रुद्धा = क्षुधा पीयूषफलाभावात् संजातक्षुधा क्रुद्धा। प्रवृद्धा = वृद्धि प्राप्ता । बैन्दवगतं शशिनं दशति । तत्कारणेन प्रवृत्तेः] सुधाधाराऽऽसारैः = अमृतधाराणाम् आसारैः तनुम् = योगिशरीरम् । लक्षणया द्विसप्तति[७२]सहस्र-नाडीनि । स्नपयसि, लक्षणया पूरयसि । हे देवि ! त्वं कुण्डलिनीरूपा सती पूरयसि इति भावः ॥४॥ अथ तत्त्वान्तर्गता वा न वा कुण्डलिनीति शङ्कोद्गमे समाधानम् पृथिव्यापस्तेजः पवनगगने तत्प्रकृतयः स्थितास्तन्मात्रास्ता विषयदशकं मानसमिति । 'ततो माया विद्या तदनु च महेशः शिव इतः परं तत्त्वातीतं मिलितवपुरिन्दोः परकला ॥५॥ पाठा०-(१) तन्मात्राऽऽप्ताः । (२) तथा । पृथिव्यापस्तेजः पवनगने = पृथिव्यादिपञ्चमहाभूतानि । तत्प्रकृतयः = तत्पञ्चमहाभूतप्रकृतयः । तन्मात्रास्ताः [पाठान्तरम्तन्मात्राप्ताः] = तन्मात्रसंज्ञया उपलब्धाः । स्थिताः = उपस्थिताः मिलित्वा दश इति संख्येयाः । विषयदशकम् । मानसम् इति । ततः माया। विद्या। तदनु च महेशः = जीवस्थानीयः । शिवः = "हिरण्यगर्भस्समवर्तताग्रे' इति श्रुत्युक्तहिरण्यगर्भः [एतानि आहत्य पञ्चविंशति तत्त्वानि । इतः परं तत्त्वातीतम् [अस्ति वस्तु किञ्चित्, किं तद् इत्याकाङ्क्षायाम् इन्दोः = बैन्दवेन्दुसम्बन्धिनी । परकला = नित्याकला। मिलितवपुः = इन्दुना मिलितवपुः अस्ति न पार्थक्येन इति भावः । सा एषा एव स्तुत्या देवी कुण्डलिनी ॥५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56