Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुभगोदयस्तुतिः लाम् = श्रीचक्रान्तर्गतबिन्दुसम्बन्धि चन्द्रकला (नित्याकला)रूपाम् । महाकालातीताम् = "हरः कालकालो गुणी सर्व विद्यःसर्ववेद्यः' इति श्वेताश्वतरोपनिषन्निरूपितमहाकाल: नाम परमात्मा एव, तमत्यन्तम् इता प्राप्ता, स्वरूपसम्बन्धेन इति भावः, तादृशीम्। कलितसरणीकल्पिततनुम् = कलितया "तदैक्षत बहु स्याम्' इत्यादिश्रुत्युदितया सरण्या कल्पिता तनुः शरीरं यस्याः ताम् । अनिशम् । सुधासिन्धोरन्तर्वसतिम् = सुधासिन्धुमध्यस्थानम् एव वसतिः (वासस्थानम्) यस्याः तादृशीम् । सुधासिन्धोरन्तर्वसतिमित्यत्र अलुक्समासः "कण्ठेकाल:'' इतिवत् । वासरमयीम् = वासरपदेन व्यावहारिककाल: लक्ष्यते, तद्रूपां च इति भावः । एतादृशीं त्वां वन्दे इति पूर्वेण अन्वयः ॥१॥ अथ योगिनः श्रीदेवीदर्शनप्रकारनिरूपणम् मनस्तत्त्वं जित्वा नयनमथ नासाग्रघटितं 'पुनावृत्ताक्षः स्वयमपि यदा पश्यति पराम् । तदानीमेवास्य स्फुरति बहिरन्तर्भगवती परानन्दाकारा परशिवपरा काचिदपरा ॥२॥ पाठा० - (१) पुनर्व्यावृत्ताक्षिद्वयमपि । मनस्तत्त्वं जित्वा = "योगश्चित्तवृत्तिनिरोधः'' [पातञ्जलयोगसूत्रम् इत्याद्युक्तविधिना मनः जित्वा । अथ नयनं नासाग्र घटितं कृत्वा । व्यावृत्ताक्षः पुनः = प्रपञ्चदृष्टेः व्यावृत्तम् अक्षिद्वयं येन तादृशः सन् । स्वयम् । परां देवीम् अपि यदा पश्यति योगी तदानीम् एव । अस्य । भगवती। परशिवपरा = परमात्मैकाधारवती । काचित् = अनिर्वाच्या । अपरा = अद्वितीया । परानन्दाकारा = परानन्द-स्वरूपिणी । बहिः अन्तः च स्फुरति ॥२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56