Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीः श्रीगौडपादाचार्यविरचिता सुभगोदयस्तुतिः श्रीपरिपूर्णप्रकाशानन्दभारतीमहास्वामिविरचित-भावबोधिनी टीकासहिता भवानि त्वां वन्दे भवमहिषि सच्चित्सुखवपुःपराकारां देवीममृतलहरीमैन्दवकलाम् । महाकालातीतां कलितसरणीकल्पिततर्नु सुधासिन्धोरन्तर्वसतिमनिशं वासरमयीम् ॥१॥ पाठान्तरम्-(१) कलितसरणि कल्पिततर्नु । टीकाकरणप्रतिज्ञा या योगिमात्रप्रत्यक्षा यत्र संस्तूयते परा। तन्नुतेः क्रियतेऽस्माभिः सनत्या भावबोधिनी ॥ भावबोधिनी-टीका-- श्रीशङ्करभगवत्पादपरमगुरवः श्रीगौडपादाचार्याः योगिहृदयंगमकुण्डलिन्युपासनया श्रीदेवीतादात्म्याप्तिरूपमोक्षफलविधायिनी सुभगोदयस्तुति चिकीर्षवः प्रथमं श्रीदेवीनमस्काररूपं कुर्वन्ति मङ्गलम् । “भवानि ! त्वां वन्दे'' इति । हे भवानि = हे भवमहिषि ! त्वां वन्दे । कथंभूताम् ? सच्चित्सुखवपुःपराकाराम् = सच्चिदानन्दवपुष्टवेन परः उत्कृष्ट: आकारः यस्याः तादृशीम् । देवीम् = स्वयंप्रकाशमानाम् । अमृतलहरीम् । ऐन्दवक1. अस्माभिः = श्रीपरिपूर्णप्रकाशानन्दभारतीमहास्वामिभिः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56