Book Title: Subhagoday Stuti
Author(s): Prithvi K Agrawala, Rama Adhar Pathak
Publisher: Prithvi Prakashan

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावबोधिनीटीकासहिता अथ कुण्डलिनीदशानिरूपणम् कुमारी यन्मन्द्रं ध्वनति च ततो योषिदपरा कुलं त्यक्त्वा 'रौति स्फुटति च 'महाकालभुजगी। ततः पातिव्रत्यं भजति दहराकाशकमले सुखासीना योषा भवसि भवसीत्काररसिका ॥६॥ पाठा० -(१) काचित् । (२) महानीलभुजगो; महाकालपतगी। योगी यदा कुण्डलिन्युत्थापनं कुरुते तदा सा कुण्डलिनी मन्द्रध्वनि करोति, तदानीं सा कुमारीपदवाच्या भवति । ततः । कुलम् = कुलकुण्डम् । मूलाधारस्थानम्। त्यक्त्वा = हित्वा, स्वाधिष्ठानादिचक्रसंचारिणो यदा तदा । रौति = रोरवणं कुरुते, तदा सा योषिद् वाच्या। स्फुटति च = स्पष्टा च भवति । ततः परं महाकाशपद्मे यदा सुखासीना, स्फुटतरा । भवसीत्काररसिका सती = महाकामेश्वरसीत्कारेषु प्रीततरा भूत्वा, पातिव्रत्यं भजते । तदा, महाकालभुजगी = कुण्डलिनी इति प्रसिद्धा । तथा च श्रुतिः- "यत्कुमारी मन्द्रयते । यद्योषिद्यत्पतिव्रता'' इति ।।६।। अथ देवीविहारस्थाननिरूपणम् त्रिकोणं ते कौलाः कुलगृहमिति प्राहुरपरे चतुष्कोणं प्राहुः समयिन इमे बैन्दवमिति । सुधासिन्धौ तस्मिन् सुरमणिगृहे सूर्यशशिनोरगम्ये रश्मीनां समयसहिते त्वं 'विहरसे ॥७॥ पाठान्तराणि-( १ ) सुधासिन्धोस्तस्मिन् । (२) विहरसि । श्रीपदवाच्यसर्वसृष्टिचक्रप्रतीकभूतश्रीचक्रयन्त्रे .. यत्त्रिकोणं तत् कुलगृहम् इति, मूलस्थानप्रतीकम् इति कौलाः भावयन्ति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56