________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२
सुभगोदयस्तुतिः
शोभमाना मणिपुरे एव । यतः भवत्पाणिव्रातः शृङ्गारादिनवरसरूपः । अत्र शृङ्गारादयः नव एव अपि शान्तस्य सगुणनिर्गुणभेदेन द्विधा भिन्नत्वात् तेषां दशत्वसिद्धिः । किं च अत्र शान्तस्य ब्रह्मालम्बत्वेन । तस्य नादब्रह्मोपकरणत्वेन च । तन्नादजनकत्वाद् वीणायाः तद्ग्रहणं पाणिभ्याम् उक्त्वा । सम्पादिता दशसंख्या देवीभुजानाम् इति रहस्यम् । यः एवं तव वपुः प्रत्यक्षम् उपास्यते तस्य इतः परं श्रेयस्करं न अस्ति ॥ १५ ॥ इत्येक्यनिरूपणम् ॥ अथोक्तदशभुजस्थपदार्थनिरूपणम्
भवानि ! श्रीहस्तैर्वहसि फणिपाशं सृणिमथो धनुः पौण्ड्रं पौष्पं शरमथ जपस्रक्शुकवरौ ॥ अथ द्वाभ्यां मुद्रामभयवरदानेक रसिकां क्वणद्वीणां द्वाभ्यां त्वमुरसि कराभ्यां च बिभूषे ।। १६ ।।
पाठा०- (१) रसिके । (२) उरसि च ।
Acharya Shri Kailassagarsuri Gyanmandir
हे भवानि ! त्वम् । त्वद्धस्तैः दशभिः नागपाशादीन् वहसि । तेषां विवृतिः पूर्वश्लोकानुबन्धेन द्रष्टव्या । यथा, "रागस्वरूपपाशाढ्या क्रोधाकाराङ्कशोज्वला " इति उक्तः करुणारसधर्मवद्रागस्य बन्धहेतुत्वात् पाशत्वं रौद्ररसधर्मवत्क्रोधस्य वशीकरणहेतुत्वाद् अङ्कशत्वं यथा उपपद्यते तथा एव अवशिष्ट - धनुर्बाणादीनां रूपाणि उन्नेयानि शृङ्गारादिभिः इति सूचयामः
॥१६॥
अथ श्रीचक्रस्वरूपवर्णनम् -
त्रिकोणैरष्टारं त्रिभिरपि दशारं समुदभूद् दशारं भूगेहादपि च भुवनाश्रं समभवत् ।
For Private And Personal Use Only