Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 359
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 851 // माणत इति उवरिमहेट्ठिल्लेसु त्ति उपरितनाधस्तनयोः क्षुल्लकप्रतरयोः, सर्वेषां मध्ये तयोरेव लघुत्वात्, तयोरध उपरि च प्रदेशान्तरवृद्ध्या वर्द्धमानतरत्वाल्लोकस्येति, अट्ठपएसिए त्ति अष्टौ प्रदेशा यस्मिन्नित्यष्टप्रदेशिकः, स्वार्थिकप्रत्ययविधानादिति, तत्र चोपरितने प्रतरे चत्वारः प्रदेशा गोस्तनवदितरत्रापि चत्वारस्तथैवेति, इमाउत्ति वक्ष्यमाणाः, दस त्ति चतस्रो द्विप्रदेशादयो व्युत्तराः शकटोर्द्धिसंस्थाना महादिशश्चतम्र एव एकप्रदेशादयोऽनुत्तरा मुक्तावलीकल्पा विदिशः, तथा द्वे चतुष्प्रदेशादिके अनुत्तरे ऊर्ध्वाधोदिशाविति, पवहति त्ति प्रवहन्ति प्रभवन्तीत्यर्थः, इंदा गाहा, इन्द्रो देवता यस्याः सा ऐन्द्री एवमाग्नेयी याम्येत्यादि, विमला वितिमिरत्वादूर्ध्वदिशोनामधेयम्, तमा अन्धकारयुक्तत्वेन रात्रितुल्यत्वादधोदिशश्चेति। लवणस्सेत्यादि, गवां तीर्थ- तडागादाववतारमार्गो गोतीर्थम्, ततो गोतीर्थमिव गोतीर्थं- अवतारवती भूमिस्तद्विरहितं सममित्यर्थः, एतच्च पञ्चनवतियोजनसहस्राण्यर्वाग्भागतः परभागतश्च गोतीर्थरूपां भूमिं विहाय मध्ये भवतीति, उदकमाला उदकशिखा वेलेत्यर्थो, दशयोजनसहस्राणि विष्कम्भत उच्चैस्त्वेन षोडशसहस्राणीति, समुद्रमध्यभागादेवोत्थितेति, सव्वेवी त्यादि, सर्वेऽपीति पूर्वादिदिक्षु तद्भावाच्चत्वारोऽपि महापातालाः पातालकलशा वलयामुखकेऊरजूयकईश्वरनामानश्चतुःस्थानकाभिहिताः, क्षुल्लकपातालकलशव्यवच्छेदार्थं महाग्रहणम्, दशदशकानि शतं योजनसहस्राणां लक्षमित्यर्थः, उद्वेधेन गाधेनेत्यर्थः मूले बुध्ने दशसहस्राणि मध्ये लक्षम्, कथं?, मूलविष्कम्भादुभयत एकैकप्रदेशवृद्ध्या विस्तरं गच्छतां वा एकप्रदेशिका श्रेणी भवति तया, अनेन प्रदेशवृद्धिरुपदर्शिता, अथवा एकप्रदेशिकायाः श्रेण्या अत्यन्तमध्ये, ततोऽध उपरि च प्रदेशोनं लक्षमित्यर्थः,8 तथा उपरि, किमुक्तं भवति?- अत आह- मुखमूले मुखप्रदेशे, कुड्डत्ति कुड्यानि भित्तय इत्यर्थः, सर्वाणि च तानि वज्रमयानि O०तां वा एक० (मु०)। दशममध्ययन दशस्थानम्, सूत्रम् 716-726 प्राणादीनि भंगान्तानि सूक्ष्माणि, गंगादिसमगतनद्यः, भरतराजधान्यः तत्प्रव्रजिता नृपाश्च, इत्यादि

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444