Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 444
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 936 // वाचनानामनेकत्वात्, पुस्तकानामशुद्धितः / सूत्राणामतिगाम्भीर्यान्मतभेदाच्च कुत्रचित्॥२॥ क्षुणानि सम्भवन्तीह, केवलं सुविवेकिभिः / सिद्धान्तानुगतो योऽर्थः, सोऽस्माद्ग्राह्योन चेतरः॥३॥ शोध्यं चैतजिने भक्तैर्मामवद्भिर्दयापरैः / संसारकारणाद्घोरादपसिद्धान्तदेशनात् // 4 // कार्या न चाक्षमाऽस्मासु, यतोऽस्माभिरनाग्रहैः / एतद् गमनिकामात्रमुपकारीति चर्चितम् // 5 // तथा सम्भाव्य सिद्धान्ताद्, बोध्यं मध्यस्थयाधिया। द्रोणाचार्यादिभिः प्राज्ञैरनेकैरादृतं यतः॥६॥ जैनग्रन्थविशालदुर्गमवनादुच्चित्य गाढश्रम, सद्व्याख्यानफलान्यमूनि मयका स्थानाङ्गसद्धाजने। संस्थाप्योपहितानि दुर्गतनरप्रायेण लब्ध्यर्थिना, श्रीमत्सङ्घविभोरतः परमसावेव प्रमाणं कृती॥७॥ श्रीविक्रमादित्यनरेन्द्रकालाच्छतेन विंशत्यधिकेन युक्ते। समासहस्रेऽतिगते विहब्धा, स्थानाङ्गटीकाऽल्पधियोऽपिगम्या॥८॥ प्रत्यक्षरं निरूप्यास्या, ग्रन्थमानं विनिश्चितम् / अनुष्टुभांसपादानि, सहस्राणि चतुर्दश // 1 // प्रशस्तिः अजितसिंहसूरिशिष्ययशोदेवगणिसहायात् समर्थना, द्रोणाचार्यमुख्यकृता शुद्धिश्च प्रशस्तौ // इति श्रीमच्चान्द्रकुलीनाभयदेवसूरिवरविहितविवरणयुतं श्रीस्थानाङ्गाख्ये तृतीयाङ्गे द्वितीयो विभागः समाप्तः तत्समाप्तौ च श्रीस्थानाङ्गाख्यं तृतीयाङ्गं समाप्तम्। // 936 //

Loading...

Page Navigation
1 ... 442 443 444