Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 935 // प्रशस्तिः अजितसिंहसूरिशिष्ययशोदेवगणिसहायात् समर्थना, द्रोणाचार्य मुख्यकृता शुद्धिश्च // प्रशस्तिः // ॥श्रीः॥तत्समाप्तौच समाप्तंस्थानाङ्गविवरणम्, तथा च यदादावभिहितंस्थानाङ्गस्य महानिधानस्येवोन्मुद्रणमिवानुयोगः प्रारभ्यत इति तचन्द्रकुलीनप्रवचनप्रणीताप्रतिबद्धविहारहारिचरितश्रीवर्धमानाभिधानमुनिपतिपादोपसेविनः प्रमाणादिव्युत्पादनप्रवणप्रकरणप्रबन्धप्रणायिनः प्रबुद्धप्रतिबन्धप्रवक्तृप्रवीणाप्रतिहतप्रवचनार्थप्रधानवाक्प्रसरस्य सुविहितमुनिजनमुख्यस्य श्रीजिनेश्वराचार्यस्य तदनुजस्य च व्याकरणादिशास्त्रकर्तुः श्रीबुद्धिसागराचार्यस्य चरणकमलचश्चरीककल्पेन श्रीमदभयदेवसूरिनाम्ना मया महावीरजिनराजसन्तानवर्त्तिनामहाराजवंशजन्मनेव संविग्नमुनिवर्गप्रवरश्रीमदजितसिंहाचार्यान्तेवासियशोदेवगणिनामधेयसाधोरुत्तरसाधकस्येव विद्याक्रियाप्रधानस्य साहाय्येन समर्थितम् / तदेवं सिद्धमहानिधानस्येव समापिताधिकृतानुयोगस्य मम मङ्गलार्थं पूज्यपूजा-नमो भगवते वर्तमानतीर्थनाथाय श्रीमन्महावीराय नमः प्रतिपन्थिसार्थप्रमथनाय श्रीपार्श्वनाथाय नमः प्रवचनप्रबोधिकायै श्रीप्रवचनदेवतायै नमः प्रस्तुतानुयोगशोधिकायै श्रीद्रोणाचार्यप्रमुखपण्डितपर्षदेनमश्चतुर्वर्णाय श्रीश्रमणसभट्टारकायेति / एवंच निजवंशवत्सलराजसन्तानिकस्येव ममासमानमिममायासमतिसफलतां नयन्तो राजवंश्या इव वर्द्धमानजिनसन्तानवर्तिनः स्वीकुर्वन्तु यथोचितमितोऽर्थजातमनुतिष्ठन्तु सुष्ठूचितपुरुषार्थसिद्धिमुपयुञ्जताञ्च योग्येभ्योऽन्येभ्य इति // किंच सत्सम्प्रदायहीनत्वात्, सदूहस्य वियोगतः / सर्वस्वपरशास्त्राणामदृष्टेरस्मृतेश्च मे // 1 // प्रशस्ती // 935 // 0 योग्येभ्य इति (प्र०)।
Loading... Page Navigation 1 ... 441 442 443 444