Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ दशममध्ययन दशस्थानम्, सूत्रम् 741 सत्य-मृषासत्यामृषाभाषाभेदाः // 869 // त्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद् व्यवहारप्रवृत्तेरेवं शेषेष्वपि भावना कार्येति, समय त्ति संमतं च तत् सत्यं चेति सम्मतसत्यम्, तथाहि-कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसम्भवे गोपालादीनामपि सम्मतमरविन्दमेव पङ्कजमिति * अतस्तत्र संमततया पङ्कजशब्दः सत्यः कुवलयादावसत्योऽसंमतत्वादिति, ठवण त्तिस्थाप्यत इति स्थापना यल्लेप्यादिकहिदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यम्, यथा अजिनोऽपि जिनोऽयमनाचार्योऽप्याचार्योऽयमिति, नामे त्ति नाम- अभिधानं तत्सत्यं नामसत्यम्, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति, रूवेत्ति रूपापेक्षया सत्यं / रूपसत्यम्, यथा प्रपञ्चयतिः प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते न चासत्यताऽस्येति, पडुच्चसच्चे य त्ति प्रतीत्य-आश्रित्य वस्त्वन्तरंसत्यं प्रतीत्यसत्यम्, यथा अनामिकाया दीर्घत्वं ह्रस्वत्वं चेति, तथाहि-तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधाने तत्तद्रूपमभिव्यज्यत इति सत्यता, ववहार त्ति व्यवहारेण सत्यं व्यवहारसत्यम्, यथा दह्यते गिरिः गलति भाजनम्, अयंच गिरिगततृणादिदाहे व्यवहारः प्रवर्त्तते, उदकेच गलति सतीति, भाव त्ति भावं- भूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यम्, यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसम्भवे शुक्लवर्णोत्कटत्वात् शुक्लेति, जोगे त्ति योगतःसम्बन्धतः सत्यं योगसत्यम्, यथा दण्डयोगाद् दण्डश्छत्रयोगाच्छत्र एवोच्यत इति, दशममौपम्यसत्यमिति उपमैवौपम्यं तेन / सत्यमौपम्यसत्यं यथा समुद्रवत्तडागं देवोऽयं सिंहस्त्वमिति, सर्वत्रैकारः प्रथमैकवचनार्थो द्रष्टव्य इहेति ।सत्यविपक्षं मृषाहदसे त्यादि, मोसे त्ति प्राकृतत्वाद् मृषाऽनृतमित्यर्थः, कोहेगाहा, कोहे त्ति क्रोधे निश्रितमिति सम्बन्धात् क्रोधाश्रितं-कोपाश्रित मृषेत्यर्थः। तच्च यथा क्रोधाभिभूतोऽदासमपि दासमभिधत्त इति, माने निश्रितं यथा मानाध्मातः कश्चित् केनचिदल्पधनोऽपि पृष्टः सन्नाह-महाधनोऽहमिति, माय त्ति मायायां निश्रितं यथा मायाकारप्रभृतय आहुः-'नष्टो गोलकः' इति, लोभे त्ति लोभे // 869 //
Loading... Page Navigation 1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444