________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ दशममध्ययन दशस्थानम्, सूत्रम् 741 सत्य-मृषासत्यामृषाभाषाभेदाः // 869 // त्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद् व्यवहारप्रवृत्तेरेवं शेषेष्वपि भावना कार्येति, समय त्ति संमतं च तत् सत्यं चेति सम्मतसत्यम्, तथाहि-कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसम्भवे गोपालादीनामपि सम्मतमरविन्दमेव पङ्कजमिति * अतस्तत्र संमततया पङ्कजशब्दः सत्यः कुवलयादावसत्योऽसंमतत्वादिति, ठवण त्तिस्थाप्यत इति स्थापना यल्लेप्यादिकहिदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यम्, यथा अजिनोऽपि जिनोऽयमनाचार्योऽप्याचार्योऽयमिति, नामे त्ति नाम- अभिधानं तत्सत्यं नामसत्यम्, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति, रूवेत्ति रूपापेक्षया सत्यं / रूपसत्यम्, यथा प्रपञ्चयतिः प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते न चासत्यताऽस्येति, पडुच्चसच्चे य त्ति प्रतीत्य-आश्रित्य वस्त्वन्तरंसत्यं प्रतीत्यसत्यम्, यथा अनामिकाया दीर्घत्वं ह्रस्वत्वं चेति, तथाहि-तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधाने तत्तद्रूपमभिव्यज्यत इति सत्यता, ववहार त्ति व्यवहारेण सत्यं व्यवहारसत्यम्, यथा दह्यते गिरिः गलति भाजनम्, अयंच गिरिगततृणादिदाहे व्यवहारः प्रवर्त्तते, उदकेच गलति सतीति, भाव त्ति भावं- भूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यम्, यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसम्भवे शुक्लवर्णोत्कटत्वात् शुक्लेति, जोगे त्ति योगतःसम्बन्धतः सत्यं योगसत्यम्, यथा दण्डयोगाद् दण्डश्छत्रयोगाच्छत्र एवोच्यत इति, दशममौपम्यसत्यमिति उपमैवौपम्यं तेन / सत्यमौपम्यसत्यं यथा समुद्रवत्तडागं देवोऽयं सिंहस्त्वमिति, सर्वत्रैकारः प्रथमैकवचनार्थो द्रष्टव्य इहेति ।सत्यविपक्षं मृषाहदसे त्यादि, मोसे त्ति प्राकृतत्वाद् मृषाऽनृतमित्यर्थः, कोहेगाहा, कोहे त्ति क्रोधे निश्रितमिति सम्बन्धात् क्रोधाश्रितं-कोपाश्रित मृषेत्यर्थः। तच्च यथा क्रोधाभिभूतोऽदासमपि दासमभिधत्त इति, माने निश्रितं यथा मानाध्मातः कश्चित् केनचिदल्पधनोऽपि पृष्टः सन्नाह-महाधनोऽहमिति, माय त्ति मायायां निश्रितं यथा मायाकारप्रभृतय आहुः-'नष्टो गोलकः' इति, लोभे त्ति लोभे // 869 //