________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 868 // दशममध्ययनं दशस्थानम्, सूत्रम् 741 सत्य-मृषासत्यामृषाभाषाभेदाः तथा ज्ञानस्य संक्लेशोऽविशुद्ध्यमानता स ज्ञानसंक्लेशः, एवं दर्शनचारित्रयोरपीति / एतद्विपक्षोऽसंक्लेशस्तमधुनाऽऽह- दसे त्यादि, कण्ठयम् / असंक्लेशश्च विशिष्टे जीवस्य वीर्यबले सति भवतीति सामान्यतो बलनिरूपणायाह- दसे त्यादि, श्रोत्रेन्द्रियादीनां पञ्चानां बलं- स्वार्थग्रहणसामर्थ्य जाव त्ति चक्षुरिन्द्रियबलादि वाच्यमित्यर्थो, ज्ञानबलं- अतीतादिवस्तुपरिच्छेदसामर्थ्य चारित्रसाधनतया मोक्षसाधनसामर्थ्य वा, दर्शनबलं सर्ववेदिवचनप्रामाण्यादतीन्द्रियायुक्तिगम्यपदार्थरोचनलक्षणम्, चारित्रबलं यतो दुष्करमपि सकलसङ्गवियोगं करोत्यात्मा यच्चानन्तमनाबाधमैकान्तिकमात्यन्तिकमात्मायत्तमानन्दमाप्नोति, तपोबलं यदनेकभवार्जितमनेकदुःखकारणं निकाचितकर्मग्रन्थिं क्षपयति, वीर्यमेव बलं वीर्यबलम्, यतो गमनागमनादिकासु विचित्रासु क्रियासु वर्त्तते, यच्चापनीय सकलकलुषपटलमनवरतानन्दभाजनं भवतीति / चारित्रबलयुक्तः सत्यमेव भाषत इति तन्निरूपणायाह दसविहे सच्चे पण्णत्ते-जणवय 1 सम्मय २ठवणा 3 नामे ४रूवे 5 पडुच्चसच्चे 6 या ववहार 7 भाव 8 जोगे९दसमे ओवम्मसच्चे य१०॥१॥दसविधेमोसे पं० तं०-कोधे१माणे २माया ३लोभे 4 पिज्जे 5 तहेव दोसे६य।हास७ भते 8 अक्खातित 9 उवघातनिस्सिते दसमे १०॥२॥दसविधेसच्चामोसे पं०२०- उप्पन्नमीसते 1 विगतमीसते 2 उप्पण्णविगतमीसते ३जीवमीसए 4 अजीवमीसए ५जीवाजीवमीसए 6 अणंतमीसए७ परित्तमीसए 8 अद्धामीसए 9 अद्धद्धामीसए१०॥सूत्रम् 741 // दसविहे त्यादि, सन्तः- प्राणिनः पदार्था मुनयो वा तेभ्यो हितं सत्यं दशविधं तत्प्रज्ञप्तम्, तद्यथा- जणवय गाहा, जणवय त्ति सत्यशब्दः प्रत्येकमभिसम्बन्धनीयः, ततश्च जनपदेषु- देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यम्, यथा कोङ्कणादिषु पयः पिच्चं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतु