SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ दशममध्ययन दशस्थानम्, सूत्रम् 741 सत्य-मृषासत्यामृषाभाषाभेदा: // 870 // निश्रितं वणिकप्रभृतीनामन्यथाक्रीतमेवेत्थं क्रीतमित्यादि, पिज्ज त्ति प्रेमणि नि:श्रितम्, अतिरक्तानां दासोऽहं तवेत्यादि, तहेव दोसे य त्ति द्वेषे निश्रितम्, मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, हासे त्ति हासे निश्रितं यथा कन्दर्पिकाणां कस्मिंश्चित्कस्यचित्सम्बन्धिनि गृहीते पृष्टानांन दृष्टमित्यादि भये त्ति भयनिश्रितं तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानम्, अक्खाइय त्ति आख्यायिकानिश्रितं तत्प्रतिबद्धोऽसत्प्रलापः, उवघायनिस्सिए त्ति उपघाते- प्राणिवधे निश्रितंआश्रितं दशमं मृषा, अचौरे चौरोऽयमित्यभ्याख्यानवचनम्, मृषाशब्दस्त्वव्यय इति / सत्यासत्ययोगे मिश्रं वचनं भवतीति तदाह- दसे त्यादि, सत्यं च तन्मृषा चेति प्राकृतत्वात् सच्चामोसंति, उप्पन्नमीसए त्ति उत्पन्नविषयं मिश्रं-सत्यामृषा उत्पन्नमिश्र तदेवोत्पन्न मिश्रकम्, यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उत्पन्ना इत्यभिदधतस्तन्न्यूनाधिकभावे व्यवहारतोऽस्य सत्यामृषात्वात्, श्वस्ते शतं दास्यामीत्यभिधाय पञ्चाशत्यपि दत्तायांलोके मृषात्वादर्शनादनुत्पन्नेष्वेवादत्तेष्वेव वा मृषात्वसिद्धेः, सर्वथा क्रियाऽभावेन सर्वथा व्यत्ययाद्, एवं विगतादिष्वपि भावनीयमिति 1, विगतमीसए त्ति विगतविषयं मिश्रकं विगतमिश्रकम्, यथैकं ग्राममधिकृत्यास्मिन्नद्य दश वृद्धा विगता इत्यभिदधतो न्यूनाधिकभावे मिश्रमिति 2, उप्पन्नविगयमीसए त्ति उत्पन्नं च विगतंच उत्पन्नविगते तद्विषयं मिश्रकमुत्पन्नविगतमिश्रकम्, यथैकं पत्तनमधिकृत्यास्मिन्नद्य दश दारका जाता दश च वृद्धा विगता इत्यभिदधतस्तन्न्यूनाधिकभाव इति 3, जीवमीसए त्ति जीवविषयं मिश्रं-सत्यासत्यं जीवमिश्रम्, यथा / जीवन्मृतकृमिराशौ जीवराशिरिति 4, अजीवमीसए त्ति अजीवानाश्रित्य मिश्रमजीवमिश्रम्, यथा तस्मिन्नेव प्रभूतमृतकृमि-08 राशावजीवराशिरिति 5, जीवाजीवमिस्सए त्ति जीवाजीवविषयं मिश्रकं जीवाजीवमिश्रकं यथा तस्मिन्नेव जीवन्मृतकृमिराशी प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्यूनाधिकत्वे 6, अणंतमीसए त्ति अनन्तविषयं मिश्रकमनन्त // 870 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy