________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 871 // दशममध्ययन दशस्थानम्, सूत्रम् 742 दृष्टिवाद नामानि मिश्रकं यथा मूलकन्दादौ परीतपत्रादिमत्यनन्तकायोऽयमित्यभिदधतः 7, परीतमिस्सए त्ति परीत्तविषयं मिश्रकं परीत्तमिश्रक यथा अनन्तकायलेशवति परीत्ते परीत्तोऽयमित्यभिदधतः ८।अद्धामिस्सएत्ति कालविषयं सत्यासत्यं यथा कश्चित् कस्मिंश्चित्प्रयोजने सहायांस्त्वरयन् परिणतप्राये वासरे एव रजनी वर्त्तत इति ब्रवीति ९,अद्धद्धामीसए त्ति अद्धा-दिवसो रजनी वा तदेकदेशः- प्रहरादिरद्धद्धा तद्विषयं मिश्रकं- सत्यासत्यमद्धाद्धामिश्रकम्, यथा कश्चित् कस्मिंश्चित्प्रयोजने प्रहरमात्र एव मध्याह्न / इत्याह / भाषाधिकारात् सकलभाषणीयार्थव्यापकं सत्यभाषारूपं दृष्टिवादं पर्यायतो दशधाऽऽह दिट्ठिवायस्सणंदसनामधेजापं० तं०- दिट्ठिवातेति वा हेउवातेति वा भूयवातेति वा तच्चावातेति वा सम्मावातेति वा धम्मावातेति वा भासाविजतेति वा पुव्वगतेति वा अणुजोगगतेति वा सव्वपाणभूतजीवसत्तसुहावहेति वा॥सूत्रम् 742 // दिट्ठी त्यादि, दृष्टयो दर्शनानि वदनं वादो दृष्टीनां वादो दृष्टिवादो दृष्टीनां वा पातो यस्मिन्नसौ दृष्टिपातः, सर्वनयदृष्टय इहाख्यायन्त इत्यर्थः / तस्य दश नामधेयानि नामानीत्यर्थस्तद्यथा- दृष्टिवाद इति प्रतिपादितमेव, इतिशब्द उपप्रदर्शने वाशब्दो विकल्पे, तथा हिनोति- गमयति जिज्ञासितमर्थमिति हेतु:- अनुमानोत्थापकं लिङ्गमुपचारादनुमानमेव वा तद्वादो हेतुवादः / तथा भूताः- सद्भूताः पदार्थास्तेषां वादो भूतवादः। तथा तत्त्वानि- वस्तूनामैदम्पर्याणि तेषां वादस्तत्त्ववादस्तथ्यो वा- सत्यो वादस्तथ्यवादः / तथा सम्यग्- अविपरीतो वादः सम्यग्वादः / तथा धर्माणां- वस्तुपर्यायाणां धर्मस्य वाचारित्रस्य वादो धर्मवादः / तथा भाषा- सत्यादिका तस्या विचयो-निर्णयो भाषाविचयो, भाषाया वा- वाचो विजयःसमृद्धिर्यस्मिन् स भाषाविजयः। तथा सर्वश्रुतात्पूर्वं क्रियन्त इति पूर्वाणि- उत्पादपूर्वादीनि चतुर्दश तेषु गतोऽभ्यन्तरीभूतस्तस्वभाव इत्यर्थ इति पूर्वगतः। तथाऽनुयोगः- प्रथमानुयोगस्तीर्थकरादिपूर्वभवादिव्याख्यानग्रन्थो गण्डिकानुयोगश्च भरत // 871 //