SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ दशममध्ययनं दशस्थानम्, सूत्रम् 743 // 872 // अग्न्यादिशस्त्रतज्जातादिदोषवस्त्वादिविशेषाः श्रीस्थानाङ्गनरपतिवंशजानां निर्वाणगमनानुत्तरविमानगमनवक्तव्यताव्याख्यानग्रन्थ इति द्विरूपेऽनुयोगे गतोऽनुयोगगतः। एतौ च श्रीअभय० पूर्वगतानुयोगगतौ दृष्टिवादांशावपि दृष्टिवादतयोक्तौ अवयवे समुदायोपचारादिति, तथा सर्वे- विश्वे ते च ते प्राणाश्चवृत्तियुतम् भाग-२ द्वीन्द्रियादयो भूताश्च- तरवो जीवाश्च- पञ्चेन्द्रियाः सत्त्वाश्च-पृथिव्यादयः इति द्वन्द्वे सति कर्मधारयस्ततस्तेषां सुखं शुभं वा आवहतीति सर्वप्राणभूतजीवसत्त्वसुखावहः,सुखावहत्वं च संयमप्रतिपादकत्वात् सत्त्वानां निर्वाणहेतुत्वाञ्चेति / प्राणादीनां सुखावहो दृष्टिवादोऽशस्त्ररूपत्वात् शस्त्रमेव हि दुःखावहमिति शस्त्रप्ररूपणायाह दसविधे सत्थे पं० तं०-सत्थमग्गी 1 विसं 2 लोणं 3, सिणेहो ४खार ५मंबिलं 6 / दुप्पउत्तोमणो 7 वाया 8, काया ९भावोत अविरती १०॥१॥दसविहे दोसे पं० तं०- तज्जातदोसे 1 मतिभंगदोसे 2 पसत्थारदोसे 3 परिहरणदोसे 4 / सलक्खण 5 कारण 6 हेउदोसे 7, संकामणं 8 निग्गह 9 वत्थुदोसे १०॥१॥दसविधे विसेसे पं० सं०- वत्थु 1 तज्जातदोसे 2 त, दोसे एगट्ठितेति 3 त। कारणे 4 त पडुप्पण्णे 5, दोसे 6 निव्वे 7 हिअट्ठमे ८॥१॥अत्तणा 9 उवणीते 10 त, विसेसेति त, ते दस // सूत्रम् 743 // दसे त्यादि, शस्यते- हिंस्यते अनेनेति शस्त्रम्, सत्थं सिलोगो, शस्त्रं-हिंसकं वस्तु, तच्च द्विधा- द्रव्यतो भावतश्च, तत्र द्रव्यतस्तावदुच्यते- अग्नि:- अनलः, स च विसदृशानलापेक्षया स्वकायशस्त्रं भवति, पृथिव्याद्यपेक्षया तु परकायशस्त्रं 1 विषं- स्थावरजङ्गमभेदं 2 लवणं- प्रतीतं 3 स्नेहस्तैलघृतादि 4 क्षारो- भस्मादि 5 अम्लं- काञ्जिकं 6 'भावो य'त्ति इह द्रष्टव्यं तेन भावो- भावरूपं शस्त्रम्, किं तदित्याह- दुष्प्रयुक्तं- अकुशलं मनो- मानसं 7 वाग्- वचनं दुष्प्रयुक्ता 8 कायश्चशरीरं दुष्प्रयुक्त एव 9, इह च कायस्य हिंसाप्रवृत्तौ खड्गादेरुपकरणत्वात् कायग्रहणेनैव तद्वहणं द्रष्टव्यमिति, अविरतिश्चअप्रत्याख्यानमथवा अविरतिरूपो भावः शस्त्रमिति 10 / अविरत्यादयो दोषाः शस्त्रमित्युक्तमिति दोषप्रस्तावाद्दोषविशेष // 872 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy