SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 873 // दशममध्ययन दशस्थानम्, सूत्रम् 743 निरूपणायाह- दसविहे त्यादि, तज्जाये त्यादि वृत्तम्, एते हि गुरुशिष्ययोर्वादिप्रतिवादिनोर्वा वादाश्रया इव लक्ष्यन्ते, तत्र तस्य गुर्वादेर्जातं- जातिः प्रकारो वा जन्ममर्मकर्मादिलक्षणः तज्जातं तदेव दूषणमितिकृत्वा दोषस्तजातदोषस्तथाविध-8 कुलादिना दूषणमित्यर्थः / अथवा तस्मात्- प्रतिवाद्यादेः सकाशाज्जातः क्षोभान्मुखस्तम्भादिलक्षणो दोषस्तज्जातदोषः 1 / / अग्न्यादितथा स्वस्यैव मते:- बुद्धेर्भङ्गो-विनाशो मतिभङ्गो-विस्मृत्यादिलक्षणोदोषो मतिभङ्गदोषः २।तथा प्रशास्ता-अनुशासको शस्त्रमर्यादाकारी सभानायकः सभ्यो वा तस्माद् द्विष्टादुपेक्षकाद्वा दोषः प्रतिवादिनो जयदानलक्षणो विस्मृतप्रमेयप्रतिवादिनः तज्जातादि दोषवस्त्वादिप्रमेयस्मारणादिलक्षणो वा प्रशास्तृदोष 3, इह तथाशब्दो लघुश्रुतिरिति, तथा परिहरणं- आसेवा स्वदर्शनस्थित्या लोक विशेषाः रूढ्या वा अनासेव्यस्य तदेव दोषः परिहरणदोषः। अथवा परिहरणं- अनासेवनं सभारूढ्या सेव्यस्य वस्तुनस्तदेव तस्माद्वा दोषः परिहरणदोषोऽथवा वादिनोपन्यस्तस्य दूषणस्य असम्यक्परिहारोजात्युत्तरं परिहरणदोष इति, यथा बौद्धेनोक्तमनित्यः शब्दः कृतकत्वाद्घटवदिति, अत्र मीमांसकः परिहारमाह-ननु घटगतंकृतकत्वंशब्दस्यानित्यत्वसाधनायोपन्यस्यते शब्दगतं वा?, यदि घटगतंतदा तच्छब्दे नास्तीत्यसिद्धता हेतोः। अथ शब्दगतं तन्नानित्यत्वेन व्याप्तमुपलब्धमित्यसाधारणानैकान्तिको हेतुरित्ययंन सम्यक् परिहारः, एवं हि सर्वानुमानोच्छेदप्रसङ्गः। अनुमानं हि साधनधर्ममात्रात् साध्यधर्ममात्रनिर्णयात्मकम्, अन्यथा धूमादनलानुमानमपिन सिद्ध्येत्, तथा हि-अग्निरत्र धूमाद्यथा महानसे, अत्र विकल्प्यते-किमोतिशब्दनिर्दिष्टपर्वतैकप्रदेशादिगतधूमोऽग्निसाधनायोपात्तः उत महानसगतो?, यदि पर्वतादिगतः सोऽग्निना न व्याप्तः सिद्ध इत्यसाधारणानैकान्तिको हेतुः / अथ महानसगतस्तदा नासौ पर्वतैकदेशे वर्त्तत इत्यसिद्धो हेतुरिति अयं परिहरणदोष इति 4, तथा लक्ष्यतेतदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणं स्वं च तल्लक्षणं चस्वलक्षणं यथा जीवस्योपयोगो यथा वा प्रमाणस्य स्वपराव // 873 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy