________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ | // 874 // दशममध्ययन दशस्थानम्, सूत्रम् 743 अग्न्यादिशस्त्रतजातादि|दोषवस्त्वादिविशेषाः भासकज्ञानत्वं 5, तथा करोतीति कारणं-परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्रं यथा निरुपमसुखः सिद्धो ज्ञानानाबाधप्रकर्षाद्, नात्र किल सकललोकप्रतीतः साध्यसाधनधानुगतो दृष्टान्तोऽस्तीत्युपपत्तिमात्रता 6, दृष्टान्तसद्भावेऽस्यैव हेतुव्यपदेशः स्यात्, तथा हिनोति-गमयतीति हेतुःसाध्यसद्भावभावतदभावाभावलक्षणस्ततश्चस्वलक्षणादीनां द्वन्द्वस्तेषांदोषः स्वलक्षणकारणहेतुदोषः, इह काशब्दश्छन्दोऽर्थं द्विर्बद्धो ध्येयः 7 / अथवा सह लक्षणेन यौ कारणहेतू तयोर्दोष इति विग्रहस्तत्र लक्षणदोषोऽव्याप्तिरतिव्याप्तिर्वा, तत्राव्याप्तिर्यथा यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणमिति, इदं स्वलक्षणलक्षणम्, इदंचेन्द्रियप्रत्यक्षमेवाश्रित्य स्यात् न योगिज्ञानम्, योगिज्ञाने हि नसन्निधानासन्निधानाभ्यां प्रतिभासभेदोऽस्तीत्यतस्तदपेक्षया न किञ्चित्स्वलक्षणं स्यादिति, अतिव्याप्तिर्यथा अर्थोपलब्धिहेतुः प्रमाणमिति प्रमाणलक्षणम्, इह चार्थोपलब्धिहेतुभूतानांचक्षुर्दध्योदनभोजनादीनामानन्त्येन प्रमाणेयत्ता न स्याद्, अथवा दार्टान्तिकोऽर्थो लक्ष्यतेऽनेनेति लक्षणं- दृष्टान्तस्तद्दोषः- साध्यविकलत्वादिः / तत्र साध्यविकलता यथा नित्यः शब्दो मूर्त्तत्वाद्घटवद्, इह घटे नित्यत्वं नास्तीति / कारणदोषः साध्यं प्रति तद्व्यभिचारो यथा अपौरुषेयो वेदो वेदकारणस्याश्रूयमाणत्वादिति, अश्रूयमाणत्वं हि कारणान्तरादपि सम्भवतीति हेतुदोषोऽसिद्धविरुद्धानैकान्तिकत्वलक्षणः / तत्रासिद्धो यथाऽनित्यः शब्दश्चाक्षुषत्वाद्घटवदिति, अत्र हि चाक्षुषत्वंशब्देन सिद्धम्, विरुद्धो यथा नित्यः शब्दः कृतकत्वाद्घटवद्, इह घटे कृतकत्वं नित्यत्वविरुद्धमनित्यत्वमेव साधयतीति, अनैकान्तिको यथा नित्यः शब्दः प्रमेयत्वादाकाशवद्, इह हि प्रमेयत्वमनित्येष्वपि वर्त्तते, ततः तत, ततः संशय एवेति 7 तथा सङ्कामणं- प्रस्तुतप्रमेयेऽप्रस्तुतप्रमेयस्य प्रवेशनं प्रमेयान्तरगमनमित्यर्थोऽथवा प्रतिवादिमते आत्मनः संक्रामणं परमताभ्यनुज्ञानमित्यर्थस्तदेव दोष इति 8, तथा निग्रहश्छलादिना पराजयस्थानं स एव दोषो निग्रहदोष इति 9, // 874 //