SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ दशमम श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 875 // दशस्थानम्, सूत्रम् 743 अग्न्यादिशस्त्रतजातादिदोषवस्त्वादिविशेषाः तथा वसतः- साध्यधर्मसाधनधावत्रेति वस्तु- प्रकरणात् पक्षस्तस्य दोषः- प्रत्यक्षनिराकृतत्वादिर्यथा अश्रावणः शब्दः, शब्दे ह्यश्रावणत्वं प्रत्यक्षनिराकृतमिति 10 / एतेषामेव तज्जातादिदोषाणांसामान्यतोऽभिहितानांतदन्येषांचार्थानांसामान्यविशेषरूपाणां सतां विशेषाभिधानायाह- दसे त्यादि, विशेषो भेदो व्यक्तिरित्यनर्थान्तरम्, वत्थु इत्यादिः सार्द्धः श्लोकः, वस्त्विति प्राक्तनसूत्रस्यान्तोक्तो यः पक्षः। तज्जात मिति तस्यैवादावुक्तं प्रतिवाद्यादेर्जात्यादि तद्विषयो दोषो वस्तुतज्जातदोषः / तत्र वस्तुदोष:- पक्षदोषस्तजातदोषश्च-जात्यादिहीलनमेतौ च विशेषौ दोषसामान्यापेक्षया, अथवा वस्तुदोषे- वस्तुदोषविषये विशेषो- भेदः प्रत्यक्षनिराकृतत्वादिस्तत्र प्रत्यक्षनिराकृतो यथा अश्रावणः शब्दः / अनुमाननिराकृतो यथा नित्यः शब्दः, प्रतीतिनिराकृतो यथा अचन्द्रः शशी, स्ववचननिराकृतो यथा यदहं वच्मि तन्मिथ्येति, लोकरूढिनिराकृतो यथा शुचि नरशिरःकपालमिति, तज्जातदोषविषयेऽपि भेदो जन्ममर्मकर्मादिभिः / जन्मदोषो यथा-कच्छुल्लयाए घोडीए जाओ जो गद्दहेण छूढेण / तस्स महायणमझे आयारा पायडा होंति॥१॥ इत्यादिरनेकविधः 2 / चकारः समुच्चये, तथा दोसे त्ति पूर्वोक्तसूत्रे ये शेषा मतिभङ्गादयोऽष्टावुक्तास्ते दोषा दोषशब्देनेह सङ्गहीतास्ते च दोषसामान्यापेक्षया विशेषा भवन्त्येवेति दोषो-विशेषः। अथवा दोसे त्ति दोषेष- शेषदोषविषये विशेषो- भेदः, स चानेकविधः स्वयमूह्यः 3, एगट्ठिए यत्ति एकश्चासावर्थश्च अभिधेय एकार्थः स यस्यास्ति स एकार्थिक एकार्थवाचक इत्यर्थः, इतिरुपप्रदर्शने चः समुच्चये, स च शब्दसामान्यापेक्षयै®कार्थिको नाम शब्दविशेषो भवति, यथा घट इति, तथा अनेकार्थिको यथा गौः / यथोक्तं-दिशि 1 दृशि 2 वाचि 3 जले 4 भुवि 5 दिवि 6 वजे 7 ऽशौ 8 पशौ 9 च गोशब्द इति, इहैकार्थिकविशेषग्रहणेनानेकार्थिकोऽपि गृहीतस्तद्विपरीतत्वाद्, न कच्छूलायां वडवायां यो गर्दभेन क्षिप्तेन जातः / तस्य महाजनमध्ये आकाराः प्रकटा भवन्ति / / 1 / / // 875 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy